शेषवत्र्कदहनोष्मप्राप्तेः प्रागेव वा य[१]थेच्छं तत्र गन्तुं शक्यमेव । अयमत्राभिप्रायः- यद्ययं त्वरितं त्वत्पदं जिगमिपुर्भवति, तर्हि विघुल्लोकावधि गत[२]मेनं
ब्रह्माज्ञया[३] यः कश्चिदमेयवपुर्ब्रह्मलोकादागत्य[४] विघुल्लोकमार्गेण शक्रप्रजापति[५]लोकमार्गेण च नीत्वा विरजानदीं तारयित्वा ब्रह्मलोकं प्रापयति । तदा चायं दिव्यशरीरो
भवतीति ॥ १२ ॥
अथ ब्रह्मलोकं प्राप्तानां गतिद्वैविध्यमाह -
तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्तताम् । |
तत्रेति । एवं सत्यलोकं प्राप्तोऽयं तत्र ब्रह्मलोके वा अथवा तव पदे विष्णुलोके वा वसन्निति । अ[६]त्रायमाशयः -- सत्यलोकान्तर्भाग एव ब्रह्मविष्णुगिरिशानां लोका इति त्रयो लोकाः सन्ति । तत्र ब्रह्मविष्णुशिवानामुपासकास्तत्तल्लोकं प्राप्य तत्तत्समा [७]नान् भोगाननुभवन्ति च । प्राकृतप्रलये[८] सति मुक्ततामेति प्राकृतानां प्रकृतिकार्याणां महदहङ्कार[९]तन्मात्रपञ्चकादीनां स्वस्वकारणेषु प्रकृष्टो लयो हि प्राकृतप्रलयः, तस्मिन् सति ब्रह्मणा सह मुक्तो ब्रह्ममात्रमवतिष्ठते[१०] । अथवा स्वेच्छयेति [११] । इदमत्राकृतं – यद्ययं भुज्यमानेषु ब्रह्मादिभोगेषु मध्ये विरक्तिमापद्यते, तर्हि महाप्रलयात् प्रागेव विमुच्यते मुक्तो भवति । क[१२]थमित्यत्राह- जगदण्डं ब्रह्माण्डम् ओजसा[१३] संविभिद्य स्वस्य योगबलेनैव ब्रह्माण्डकटाहं निर्भिद्य तद्वारेत्यर्थः ॥ १३ ॥
ब्रह्माण्डभेदनप्रकारमाह -
तस्य च क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृतीः । |
- ↑ 'गच्छतीति । अ' क. पाठः.
- ↑ 'तं जीवं ब्र' क. पाठः.
- ↑ 'या क' क. पाठः.
- ↑ त्यैनं वि' क. पाठः.
- ↑ 'तिमा' क. पाठः.
- ↑ 'यमभिप्राय:' क. पाठः.
- ↑ 'नभोगमनु' क. पाठः.
- ↑ 'ये प्रा’ क. पाठः.
- ↑ 'रपञ्चतन्मात्राणां प्रलये ब्रह्मप्रलये मुक्ततामेति ब्र' क. पाठः.
- ↑ 'त इत्यर्थः । अ' क. पाठः. 'ते स्वे' ख. पाठः.
- ↑ ‘ति । यदि ब्रह्मादिभोगेषु अतितरां विरक्ततया महाप्रलयात् प्रागेव मोक्षेच्छा जायते तर्हि इत्यर्थः । पुरा खलु प्रागे' क. पाठः.
- ↑ ‘थं ज’ क. पाठः.
- ↑ 'सा स्वस्य योगबलेनैव संविभिध ब्रह्माण्डभेदनद्वा' क, पाठः.