युगाचार्य - विवेकानन्दः , भारतभूमे: यस्मिन् स्थले प्रथमं पदार्पणमकरोत् तत् पवित्रस्थानं चिह्नितुं रामनादाधिपतिभास्कर सेतुपतिना एप स्मृतिस्तम्भः निर्मितो बभूव १८६७ ई० जनवरीमासस्य २७ तारिकायाम् ।” २३९ पामबानतः स्वामी रामनादमायात् । सन्ध्या-समय आसीत् । सुनीलनभोमण्डलस्यासंख्यनक्षत्राणि स्वामिनः स्वागतमाचरन् । शतघ्नी- ध्वनिः समुदभूत् । विचित्रवर्गैः 'स्फुलिङ्गरकोटै : ' (आतिशबाजी) गगन- माच्छन्नमभवत् । राजभ्राता स्वामिनः शकटबद्धवाजिनां रमि जग्राह । राजा स्वयं शोभायात्राया अग्रे स्थित्वा स्वामिनः शकटमनुययौ । शतशः उपस्कृत । वर्तिका: (मशाले) प्राज्वलन् । देशीयेषु तथा विदेशीयेषु दुन्दुभिषु "दृश्यताम् स आयात् विजयी वीरः” एतत्पद्यं एकस्वर- तानाभ्यां वाद्यते स्म । समन्तात् कण्ठसहस्रात् निरर्गलनिर्गलितजय- ध्वनिभिः जनताकोलाहलैः सह स्वामी राजसौधं प्राविशत् । , राजास्थानसभायां विपुलाभिनन्दनस्यायोजनं बभूव । हृदयावेगेन राजा स्त्रामिनो भूरिप्रशंसां कृत्वा एकं संक्षिप्तं भाषणं प्रादात् । राज- भ्राता रामनाद निवासिनां अनेकानि साधुवादपर्णानि मानपत्राणि वाच- यित्वा स्वर्ण मंजूपया साकं स्वामिहस्ते समार्पयत् । तदुत्तरे स्वामी उदात्तकण्ठेन समस्तभारताय जागर्तेराशायाञ्च वाणीमश्रावयत् –“...सुदीर्घा रजनी समाप्तप्रायेति भाति । महद् दुःखमन्तं जगाम । महानिद्रायां निद्रितः शव उत्तस्थौ इव । इतिहासस्य वार्ता तिष्ठतु दूरे, किंवदन्त्यपि यस्य सुदूरातीतस्य घनान्धकारं भेत्तुम- समर्था अस्ति ततः स्थानात् एका अपूर्वा वाणी श्रूयत इव | ज्ञानभक्ति- कर्मणां अनन्तहिमालयरूपाया अस्मन्मातृभूमेः भारतस्य प्रत्येकशिखरात् सा वाणो प्रतिध्वनिता सती मृद्वया परन्तु दृढया तथा अभ्रान्तभाषया कस्याप्यपूर्वराज्यस्य उदन्तं वहन्ती समानयति । यावन्त्येव दिनानि व्यतियन्ति तावदेव सा स्पष्टा तथा गभीरा प्रतीयते । हिमालयस्य प्राण- दायकस्य वायोः स्पर्श: मन्ये मृतशरीरस्य शिथिलप्रायेऽस्थिमांसेऽपि
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२४९
दिखावट