पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः राजनीती, युद्धविद्यायां, वाणिज्ये, शिल्पसमृद्धौ वा न हि । धर्म एवास्माकं केवलमाश्रयः, तथाऽवलम्बनम्, एवं जातीयजीवनस्य मेरुदण्डस्वरूपः अस्ति । एष एव धर्मः अस्माभिः संसाराय देयः ।” २३८ सभान्ते स्वामी राजशकटे राजप्रासादं विश्रामाय प्रापितः । राजा- देशेन वाजिषु शकटात् मोचितेष्वेव प्रजाभिः सह राजा स्वयं शकटं कर्षितुं प्रावतत । राज्ञो भक्ति विलोक्य सर्वे लोका अभिभूता अभूवन् । " द्वितीय दिवसे स्वामी रामेश्वर मन्दिरं दर्शनार्थं जगाम । शकटे उपमन्दिरं गते एव अगणिता जनाः हस्तिनां, उष्ट्राणा, घोटकानां तथा ध्वजानां संगीतादेः विराट्शोभायात्रया सार्धं स्वामिनः स्वागतमकुर्वन् । स्वामी देवताविग्रहमपूजयत् । स मन्दिरस्य अपूर्व कारुशिल्पं स्थापत्यकोशलं तथा सहस्रस्तम्भेषु प्रतिष्ठितं मण्डपमद्राक्षीत् । देवतायाः कृते सञ्चितानि बहुमूल्यानि मणि-माणिक्य-वज्र-रत्नादीनि निरीक्ष्य भारतस्यागणितनिष्किञ्चन- दुःखिनां कृते तस्य हृदयमरोदत् । पश्चात् जनताया आग्रहविशेषात् “तीर्थमाहात्म्यं तथा उपासना" अस्य सम्बन्धे स्वामी नितान्तसुन्दरं भाषणं वितेने । प्रसङ्गवशात् सोडवोचत् - "शिवस्य पूजा केवलं मन्दिरविग्रहस्थार्चनं नास्ति, प्रत्युत दीनदरिद्रेषु तथा आतुरेषु यः जीवरूपः शिवोऽस्ति तस्यैव पूजा अस्ति ।" - - स्वामिनो भाषणं राज्ञो हृदयमालोडयत् । स उन्मत्त इव द्वाभ्यां कराभ्यां धनवितरणमकरोत् । सहस्रशो दीन-दुःखिन आतुरांश्च आकण्ठं अभोजयत् तथा तेभ्यो वस्त्राण्यदात् । स्वामिनः शुभपदार्पणस्मारणार्थं चत्वारिंशद्धस्तोन्नतं स्तम्भ निर्माय तत्रेदमलेखि— “सत्यमेव जयते । पाश्चात्य देशेषु वेदान्तप्रचारपूर्व पूज्यपादश्रीश्रोविवेकानन्दस्वामी आङ्गलशिष्यैः सह साकल्यमवाप्य