सामग्री पर जाएँ

पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३७ युगाचार्य - विवेकानन्दः प्रादत्त । अनुराधापुरे "सर्वजनीनो धर्मः" इत्यस्मिन् विषये, 'काण्डी- जाफना'-प्रभृतिस्थानेषु स अन्यान्यपि बहूनि उद्दीपनापूर्णानि भाषगान्य- कार्षीत् यैः सर्वेऽपि मुग्धा बभूवुः । तन्मुखनिःसृतवेदवाण्या तु लोकानां हृदयमुद्दीप्तमभवत् । सीलोनस्य विभिन्नस्थानेषु स्वामी दिनदशकमवसत् । सर्वत्र तस्य विशिष्टः संमान: समजनि । जनसाधारणस्य उत्साहः स्वामिनमभिभूतमकरोत् ।* ८ जनवरीमासस्य २४ तारिकायां रजन्यां एकेन देशीय प्लवेन स्वामी दक्षिण- भारतं प्रातिष्ठत । अन्तरं तावत् पञ्चविंशतिक्रोशा एवाभवत् । प्रायेण एतमेव जलभागं हनुमान् सोच्छालं उदलंघयत् । सीलोनस्य विपुलाभ्यर्थनायाः तथा समारोहस्य समाचार : मद्रासे कलिकत्तायां एवं भारतस्य विभिन्न- स्थानेषु विद्यद्वेगवत् तरसा प्रासरत् । सर्वत्रैव जनता उन्मत्ता इव बभूव । अन्यस्मिन् दिने अपराह्नात् प्रागेव प्लव: 'पामबानं' समवाप । स्वामी नैवाजानात् यत् रामनादमहाराजः स्वयमुपातिष्ठत इति, तथा राजकीय विराटस्वागतस्यायोजनमजायत इति च । प्लवात् स्वामी तीरमानिन्ये । इष्टमित्रैः साकं राजा स्वामिनश्चरणयोः न्यपतत् । तीरे अगणिता: पामवानवासिनः अधीराग्रहेण प्रतीक्षमाणा अवर्तन्त । द्रोण्याः अवतरणानन्तरमेव विपुलभावेन स्वामिनः संवर्धना- ऽभवत् । सुहृदयस्य विशालपटमण्डपस्याध: स्वामिने यदभिनन्दनपत्रं प्रादोयत तस्य भाषा नितान्तं मर्मस्पर्शिनी आसीत् – “पाश्चात्त्येषु भवतो हिन्दुधर्मप्रचार: विशेषतः फलप्रसूः बभूव । अद्य एतत् निद्राणं भारतं तस्य चिरकालीनाकालनिद्रातः प्रबोधयितुं भवान् सन्नद्धो भवतु ।” अस्यावेदनस्य स्वरः स्वामिनोऽन्तर प्रभावितं वितेने। स्वामी उत्तरे ग्राह- " भारतस्य जातीयजीवनं केवलं धर्म एवं प्रतिष्ठितमस्ति

  • कोलम्बोनिवासिनः तत्र वेदान्तप्रचारस्य कृते एकं स्थायि केन्द्र स्थाप-

यितुं स्वामिनमन्वरुन्धन् । तदनुसारं स्वामी १८६७ ई० वत्सरे अलमोडायां वसन् निजसतीर्थ्यं शिवानन्दस्वामिनं सीलोने वेदान्तप्रचारार्थ प्रेषयत् ।