पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुगाचार्य-विवेकानन्दः एप तथाऽपि यूयं मम सादरामभ्यर्थनां अकुरुत । एतेन प्रतीयते यत् हिन्दु- जातिः अधुनापर्यन्तं निजाध्यात्मिक सम्पदं न हापितवती । सम्मानः न मम कृते, अपि तु धर्मस्यायं सम्मानः । तथा यथार्थतः यदि हिन्दुजाति: जीवन्ती स्थास्यति तर्हि धर्ममाश्रित्यैव धर्म एव तस्या जातीय जीवनस्य मेरुदण्डस्वरूपः अस्ति ।”... । २३६ अन्येद्युः धनिनां दरिद्राणाञ्च शतशो दर्शनार्थिनां स्त्रीपुरुषाणां सम्मः संजग्मे। सर्वेऽपि भक्त्यर्थं स्वाभिचरणयोरातुं प्रववृतिरे । अपराहे 'फ्लोरलहाल'-शालायां सहस्रश उत्साहिनां श्रोतृणां सम्मुखे स्वामी ‘पुण्यभूमिः भारतम्' इत्यस्मिन् विषये अस्मिन् देशे प्राथमिक भाषणं दत्तवान् । धर्मभूमेर्भारतस्य महिमानं संकोर्त्य स ऊचे - " .. प्रथमं सर्वेषां हिन्दूनामिव ममापि विश्वास आसीत् यत् भारतं कर्म- भूमिरस्तीति । अद्याहं एतस्याः सभायाः समक्ष उत्थाय दृढतया सह कथयामि - इदं सत्यमस्ति एवं अतिसत्यमस्ति । यदि पृथिव्यां कोऽपि तादृशो देशः अस्ति यः पुण्यभूमिरिति कथयितुं शक्येत, यदि तादृशं किमपि स्थानं भवेत् यत्र पृथ्वी नात्रस्य सर्वेषां प्राणिनां कर्मफलभोगार्थं समागन्तव्यं भवेत्, यदि तथाविधं किमपि स्थानमस्ति यत्र भगवन्तं प्राप्तुं जीवमात्रेण पर्यन्ते आयातव्यं भवेत्, यदि तादृशः कोऽपि देशोऽस्ति, यत्र मनुष्यजातेरन्तरे सर्वाधिक्येन शौच क्षमा-धैर्य-दया- प्रभृतिसद्गुणानां विकासः अभवत्, यदि ईदृशः कोऽपि अभिजनः अस्ति यत्र आध्यात्मिकभावस्य तथा अन्तर्दृष्टेः सर्वाधिको विकासोऽभवत्- तर्हि अहंं सनिर्धारणं वक्तु शक्नुयां यत् सा अस्माकं मातृभूमिः - इयं a - भारतभूमिरेवास्ति ।” तदनन्तरं स 'दुर्बलहिन्दूनां धर्मप्राणता' 'धर्म एव भारतस्य मुख्यं सम्बलं वर्तते, राजनीतिः एवं समाजनीतिर्न' 'आध्यात्मिकप्रकाश एव संसाराय भारतस्य दानम्' 'सनातनस्तथा युगधर्मः' एवं 'सर्वधर्मसमन्वयस्य वाणी' एषु विपयेषु व्याख्यानानि श्रावयामास । • कोलम्बो नगरे स्वामी वेदान्तदर्शने एकमन्यद् भाषणं -