युगाचार्य - विवेकानन्दः स्वामिनः अखंडानन्दप्रभृतयः केचित् गुरुभ्रातरस्तस्य पृष्ठत एव दिल्लोमाजग्मुः। स्वामी तान् विलोक्य असन्तोषं प्रकटयन्तुवाच- "यूयमन्त्रापि समागताः ” – पुनरपि ते सर्व सदैव किञ्चिद् दिनानि तस्थुः । परन्तु स स्वाभ्यन्तरे एकस्या महाशक्तेराह्वानमाकर्णयामास | निःसंग- निरंकुश-गंडकवत् एकाकि- विचरणसमीहा तम् अज्ञातपथे समानयत् । भविष्यद् - विवेकानन्दस्य प्रस्तुतीकरणे तस्य विशेषप्रयोजन- मासीत् । १२७ — गुरुभ्रातरस्तेन उक्ताः – “यूयम् ध्याने भजने च निमग्ना भवत | व्यर्थं मया सह युष्माभिर्नागन्तव्यम् । एकाकिनं मां परित्यजत । ममान्तरम् एतदेवेच्छति । अहम् यथार्थतः भारतेन सह परिचितो भवितुमिच्छामि | विवेकस्याह्वानं मया श्रूयते ।” यत्रासौ पर्यचीयत | १८६१ ईसवीयफरवरीमासस्यान्ते स एकाकी राजस्थानस्य मार्गे निर्जगाम | तदनन्तरं वर्षद्वयतोऽप्यधिकं भारतभ्रमणं प्राचलत् । स चाज्ञ तसंन्यासिरूपेणैकाकी आसीत् । न तस्यासीत् परिचयः, न वा किञ्चिन्निवासस्थानमेव, केवलमसौ एको मानवरूप आसीत् । तत्रापि केवलं भारतवासो | परन्तु स आत्मगोपनं कर्तुं न प्रबभूव । गच्छति विद्वत्सु निष्कपटेषु मूर्खेषु - सर्वेरेवासाधारण व्यक्तिरूपेणासौ ग्राम-नगराणाम् उच्चनीचानां, धनिकदरिद्राणां, रुग्ण- वंचितानां सर्वविधव्यक्तीनां दुःखेन वेदनयाऽऽशयाऽऽकाङ्क्षयोत्ते- जनया, सुखेन दुःखेन साकमसावेकत्वमभजत् । सर्वत्रैव स्वस्यान्तरिक देवताया संधानमलभत । शतशो मन्दिरेषु विभिन्न नामरूपेषु – पुनश्च मानवजातिः नामरूप विहीनत्वेन यं भगवन्तं समर्चयति तं भगवन्त- मसौ साधौ, चौरे, ब्राह्मणे, चाण्डाले धनिनि, दरिद्रे, पूजके ब्रह्मचारिणि, मद्यपायिनि च प्राप्नोत् । तेन सर्वे पूजिताः । स च सर्वेषां जीवनेन सार्धं मिलित्वैको जातः । सर्वत उपरि वेदना- क्लिष्ट - मानवानां करुण आर्त्तनादः तदभ्यन्तरे प्रतिध्वनितोऽभूत् । ,
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१३७
दिखावट