सामग्री पर जाएँ

पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः १२६ राजाश्च - माननीयो गुरुरूपः संन्यासी उच्चासने उपाविशत्, राजानो महा- तस्य पादसेवामकुर्वन् । स च तेषां भोगविलासशील- चित्तेषु ज्ञानाग्निवर्तिकां प्राज्वालयत् - संसारस्य चानित्यताया बोधं कारयित्वा भूमानन्दप्रतिष्ठितेराकांक्षामुदपादयत् । तेषां सुप्तहृदयेषु जनसेवाचेतनामुद्बुद्धामकार्षीत् । पुनः वयं तम् आर्तनिपीडितमित्र- रूपेण पश्यामः प्राप्नुमश्च स्वयंवेदनाविधुरचेतसा तदीय सेवाव्रति रूपेण । दिनानुदिनं महाभारतस्य यथार्थरूपं तदन्तरे समुद्भासित- मभवत् । तेन दृष्ट, मानवाभ्यन्तरे जीवात्मानः कथमिव विक्षन्धाः क्लिष्टाश्च घोभूयन्ते । भारतस्य जनसाधारणानां करुण आर्त्तनादः तदीयं हृदयं आलोडितमकरोत् । अहो कथमेतेऽसहायाः सन्ति । मेरठं परित्यज्य स्वामी दिल्लीमागतः । दिल्लीस्मृत्वा सह अनेकेषाम् उत्थानपतनानामितिहासः संमिलितो वर्तते । विविदिषानन्दनाम्ना स कतिचिद्दिनानि भ्राम्यन् सर्वस्थानानि ददर्श । प्राचीनतिह्याभ्यन्तरे स न्यमज्जत् । कियद्दिनानि यावत् श्यामदासश्रेष्ठिन उद्याने न्यवसत् । अनेके मानवास्तस्य समीपे आगच्छन् । चतुर्दिक्ष समाचारोऽयं प्रसृतोऽभवत्, यत् महापण्डितः, अंग्रेजीभाषाभिज्ञः, साधुरेकः समागतोऽस्ति । येन सह स वार्ता करोति तमेव मुग्धीकरोति । तस्यागाथ-पांडित्येन गम्भीरज्ञानेन च सर्वे स्तंभिता भवन्ति । परेच्छया बालवदात्मवेत्ता योऽव्यक्तलिङ्गोऽननुषक्तबाह्यः ॥ दिगम्बरो वापि च साम्बरो वा त्वगम्बरो वापि चिदम्बरस्थः । उन्मत्तवद्वापि च बालवद्वा पिशाचवद्वापि चरत्यवन्याम् ॥