पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः - भ्रमणदिनान्यमूनि तदर्थं समुचित शिक्षा-दायकान्यभूवन् । केवल मयं शिक्षा ग्रहणमकार्षीत् - ग्रहणं तस्य प्रचुरमभवत् । जलाभ्यन्तर- चारी मानव इव भारतमहादेशस्य रत्नानामाहरणमकार्षीत् । धर्मभूमि- भारतस्य याश्चिन्ताधाराश्चतुर्दिक्षु प्रसृता अभूवन्, तेन सर्वासां संग्रहः कृतः । स च सर्वेषु धर्मेषु शाश्वतमैक्यं प्रापत् । विभिन्नधर्माणां मूलोद्- गमस्थानसंधान मध्यध्यगच्छत् । समाजस्रोतसः कर्दमाक्त-दशायामपि तेन वेदनायुक्तहृदयेनावधानं प्रदत्तम् । तच्चावरुद्धस्रोतः गतिशीलं निर्मलं कर्तुमुपायश्चापि तदीय-हृदये रूपायितोऽभवत् । विशिष्य च देशवासिनां दरिद्रताऽज्ञानता च तदीयं हृदयं व्याकुलमकुरुताम् । श्रीरामकृष्णदेवो व्याहरत् - 'रिक्तोदरस्य धर्मो न भवति । एतद् वृत्तान्तस्य सत्यता तेन स्वान्तःकरणेनानुभूता । तत्-प्रतिकार-चिन्तया तस्य चेतसि पावकः प्रज्वलितः । दिने रात्रौ वा कदाप्यसौ तया चिंतया आत्मानं मुक्तं नाकार्षीत् । किमधिकं, निद्रायाः समयेऽपि ताश्चिन्ता- स्तस्य मनसि जागृता अभूवन् । १२८ - एतस्यानन्तरं वयं स्वामिन राजस्थानस्य मार्गेषु एकाकिनं भ्रमन्तं प्रास्यामः | फरवरीमासस्यान्ते सः अलवरमागच्छत् । वृक्षच्छाया- युक्तेन राजपथेन भ्राम्यन्नसौ राजकीय चिकित्सालयस्य पुरतः समाज- गाम । एको मानवस्तेन पृष्टः – “महाशय, अत्र साधुसंन्यासिनां निवासस्यास्ति किंचित्स्थानम् ?” यः पृष्टः स राजकीय चिकित्सालयस्य वंगीयो डाक्टर आसीत् । स च साग्रहं स्वामिनं स्वगृहमनयत् । ईपत्कालस्य वार्तालापेनैव स अवागच्छत्, यदयं साधारण साधुर्नारित | स स्वकीयान् परिचितान् स्वामिनः समीपमानीतवान् । यः वार्त्ता करोति स एव मुग्धो भवति । कतिचिद्दिनाभ्यन्तर एव चतुर्दिक्ष कोला- हलो जातः । सदललोका समागच्छन् । एषु शिक्षिता अशिक्षिताः, सभ्या असभ्याः वृद्धा युवका हिन्दवो माहम्मदाश्च सर्व एवासन् ।