७८ युगाचार्य-विवेकानन्दः श्रीठाकुरस्य वार्त्तयैतया नरेन्द्रनाथचित्तं न शांतिमापत् । स च नितराम स्थिरत्व मगच्छत् । एकदा सन्ध्यायां नरेन्द्रो ध्यानाय समुप- विवेश | क्रमशो गम्भीरे ध्याने न्यमज्जत् । एकेनानिर्वचनीयानन्देन तस्य मनः प्लावितम् । सच्चिदानन्दज्योतिःसागरे निमग्नो बभूव । तस्य बाह्यज्ञानं व्यलुम्पत् । स हि ब्रह्मानन्देन साकमेकतामभजत् । महान् समयो व्यतीयाय । न सन्तीव देहे प्राणचिह्नानि । जीव कल्याणरूपसूक्ष्मवासनावलम्बनेन नरेन्द्रनाथस्य निर्विकल्पं निर्विषयं मनः क्रमशो जीवभूमौ प्रत्यागमत् । स्वयं तस्य न कापि तारिकायां, काशीपुरोद्यानवाटिकायाम् ) समुपलभ्यते । एकान्ते मणिना सह वार्तामकरोत् । नरेन्द्रनाथः (मणि प्रति) “गतशनिवासरेऽहमन्त्र ध्यानं कुर्वन्ना- सम् । सहसा हृदयस्याभ्यन्तरे न जाने कीदृशं विकलत्यमुत्पन्नमभूत् ।” मणिः - "कुण्डलिनीजागरणम् ।” नरेन्द्रः – “तादृशमेव भविष्यति । स्पष्टं परि- ज्ञातम् – इडा पिङ्गला च इति ! हजारामहमुक्तवान्, “हृदये हस्तं दत्वा पश्यतु ।" उपरि गत्वा तेन मिलितः सन् सर्वं तस्मै (श्रीठाकुराय) निवेदितवान् । मयोक्तम्–“सर्वेषां समभवत्, मह्यमपि किञ्चिद् दीयताम् । सर्वेषां सम्पन्नम् । मम न सम्पत्स्यते ?” मणिः – “तेन तुभ्यं किमुक्तम् ?” नरेन्द्रः – “तेन प्रोक्तम्–त्वं गृहस्य किञ्चित् प्रबन्धं कृत्वा समागच्छ । सर्वं समीचीनं सम्पत्स्यते किं त्वमभिलषसि ?” K- - मया प्रोक्तम् – “मम समोहितं यदेवमेवाहं दिनत्रयं दिनचतुष्टयं वा यावत् समाधिस्थो भवेयम् | कदा कदापि भोजनार्थमुत्तिष्ठेयम् " तेन व्याहृतम्-“त्व- मेताहंक् हीनबुद्धिरसि । तदपेक्षयाऽपि समुन्नतावस्था विद्यते । त्वं तु गायसि “यत् किमप्यस्ति तत् त्वमेव ।” अनंतरं च तेन कथितम् – “त्वं गृहस्य कंचित् प्रबन्धं कृत्वा समागच्छ, समाधिप्राप्तिदशातोऽपि समुन्नता दशा भवितुमर्हति । " "अद्य प्रातरहं गृहमगच्छम् । सर्वेऽब्र बन्– 'त्वं किं व्यर्थमितस्ततो भ्राम्यसि । बी० एल० परीक्षा निकटवर्त्तिनी वर्तते, पठनं लेखनं हित्वा इतस्ततो व्यथ कथं भ्रमसि ?" e
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/८८
दिखावट