पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः नरेन्द्रनाथः साधने व्रती बभूव । 'मन्त्रं वा साधयेयं शरोरं वा पातये- यम्' इयमेवासीत् तस्य प्रतिज्ञा । कदा कदापि च रात्रौ कांश्चन गुरु- भ्रातृनादायासौ दक्षिणेश्वरमगमत् । निशां ध्यानेनातिवाह्य प्रातः पुनः काशीपुरं प्रत्यागमत् । असीमकरुणा च नरेन्द्रनाथस्य बुद्धदेवस्यालौकिकस्त्यागः, कठोरतपञ्चर्या, ध्यानवस्तुतामगच्छन् । 'इहासने शुष्यतु मे शरीरम्' इति दृढत्वमवलम्ब्य बुद्धदेवेन बुद्धत्वमधिगतम् | तारक- कालीनामधेयौ गुरुभ्रातरौ साकं नयन् कमपि न विज्ञाप्य नरेन्द्रनाथो- ऽकस्माद् बुद्धगयां प्रतस्थे । तत्रैत्र बुद्धदेवेन बुद्धता समासादिता | तेन तिस्रो निशास्त्रीणि दिनानि च बोधिद्रमतले ध्यानेनातिवाहितानि ।* बुद्धदेवस्य विशालं हृदयं महाप्राणतां च समधिगत्य नरेन्द्रनाथः काशीपुरं प्रत्यागतः । विश्वमैत्र्या तदीयं हृदयमाप्लावितम् । ७७ नरेन्द्रनाथस्य हार्दिकं व्याकुलत्वं क्रमशो ववृधे । तेन परिज्ञातं यत् श्रीठाकुरोऽतः परं नरदेहे बहूनि दिनानि न स्थास्यति । परन्तु परमस॒त्यस्योपलब्धिरिदानीं यावन्नाऽभूत् । आहार निद्रां च परित्य- ज्यासौ अस्यामेव चिन्तायां न्यमज्जत् । एकस्यां रात्रौ निर्विकल्पसमा- धिलाभहेतवे श्रीठाकुरं परिवार्थ्यातित्, अवोचच्च – “अहं शुकदेव इव निर्विकल्पसमाधियोगेन सच्चिदानन्दसागरे निमजितुमिच्छामि " नरेन्द्रस्य व्याकुलत्वमवलोक्य श्रीठाकुरेण प्रोक्तम्- “यदि माता समोहेत तदा स सम्पत्स्यते ।” -

  • बुद्धदेवसम्बन्चे स्वामिना पाश्चात्यदेशतः अखण्डानन्दस्वामिनं प्रति

लिखितमासीत् – “बुद्धदेवो ममेष्टः, ईश्वरश्च । तेन ईश्वरवादस्य प्रचारो न कृतः—स्वयमेत्र स ईश्वरः – इत्यहं वेद्भि।” ↑ नरेन्द्रनाथस्य तात्कालिकमानसिकदशायाः सुन्दरं चित्रम् कथामृतग्रन्थे ( तृतीयभागे, त्रयोविंशखण्डे प्रथम परिच्छेदे, १८८६ ईसवीयजनवरीमासचतुर्थ्या