पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः वासना आसीत्। किंतु भगवदिच्छया तस्य हृदये 'बहुजनहिताय' कर्मवासना जागृतिमगच्छत् । क्रमशो देहे तस्य मनोऽवातरत् । प्रकृ- तिस्थो भूत्वा शनैः शनैरसौ श्रीठाकुरस्य समीपमुपर्यगच्छत् । प्रणामं कृत्वा शिरो नमयन् तस्थौ । श्रीठाकुर आनन्देन परिलतो भवन्नुवाच - "एतर्हि मात्रा तुभ्यं सर्वमपि प्रदर्शितम् । परन्तु साम्प्रतं ताः सर्वा अनुभूतयो निरुद्धाः स्थास्यन्ति | त्वया मातु: कार्यं करणीयमास्ते । कार्ये समाप्ते पुनरियमवस्था त्वया लप्स्यते ।"* इमामवस्थामधिगत्यैव मन्त्रद्रष्टा ऋषिरुक्तवान्– ७९ "वेदाहमेतं पुरुषं महान्तम् आदित्यवर्ण तमसः परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय || " नरेन्द्रनाथेन स परमपुरुषो विज्ञातः । तस्य चेतसाऽभयपदमधि- •गतम् । स आप्तकामो बभूव । आत्मानन्दे निमः | यावद्दिनपर्यन्तमसौ “... मातामह्या गृहस्य तत्रैव प्रकोष्ठेऽहमध्ययनायागच्छम् । पठतो मम भयङ्करशङ्का प्रतीताऽभूत् – पठनं भयप्रद मिव बस्तु । हृदयं स्पन्दितम् । अहमत्यरोदिंषम् । ततश्चाहं पुस्तकं परित्यज्य पलायितवान् । अनन्तरं मार्गेऽधावम्, उपानही कुत्रापि त्यक्ते । पलालसमूहपार्श्वतो गच्छन्नासम् । शरीरे पलालं संलग्न मभवत् । काशीपुरस्य मार्गेणाधावम् । गार्हस्थ्यं न रोचते । गार्हस्थ्य- स्थिता अपि न रोचते – एकं द्वौ वा भक्तौ परित्यज्य ।” नरेन्द्रनाथस्तस्यामेव रात्री साधनभजनानुष्ठानाय दक्षिणेश्वरमगच्छत् । एको द्वौ वा भक्तौ सहास्ताम् । सूचिभेद्य तमः- - अमा संक्रान्ताऽऽसीत् । -

  • एकदा काशीपुरे गृहद्वारं पिधाय श्रीठाकुरो देवेन्द्रमजुमदारं गिरिशघोषं

च नरेन्द्रविषये प्रोक्तवान् -- "तस्मै स्वरूपस्य परिज्ञानं दीयेत चेत्तर्ह्यसौ स्वदेहं न रक्षिष्यति ।” अतः कारणात् श्रीठाकुरेण नरेन्द्रस्य स्वरूपानुभूतयो निरुद्धाः कृताः । स च सम्मोहितश्चक्र | संसारस्य कल्याणवासनायां जागरितं कृत्वा 'जगद्विताय' कर्मस्वेनं नियोजयामास ।