माकन्दो मकरन्दतुन्दिलमिलद्भृङ्गालिशृङ्गारितः
सैकोऽप्यस्ति न मित्र यत्र तनुते शब्दायते कोकिलः ॥ ११२॥
केचित्पल्लवलीलया परिमलैरन्ये फलैः केचन
च्छायाभिर्घनशीतलाभिरपरे केऽपि द्विरेफखरैः ।
प्रत्येकं मुदमुद्धरन्ति तरवः सर्वैरमीभिः पुनः
पान्थानां गुणवक्रमिन्द्रियगणे दत्तं रसाल त्वया ॥ ११३ ॥
मूर्तिर्नेत्ररसायनं यदि कुतश्छायेयमच्छेतरा
चक्रे सापि ततः कुतः फलभरः पीयूषगुञ्जागृहम् ।
एवं सर्वगुणाद्भुतं यदि भवानाम्रद्रुमं निर्ममे
तत्तत्र प्रगुणीकृतः कथमसौ दुर्दैवदावानलः ॥ ११४ ॥
विच्छायतां व्रजसि किं सहकार शाखि-
न्यत्फाल्गुनेन सहसापहृता मम श्रीः ।
प्राप्ते वसन्तसमये तव सा विभूति-
र्भूयो भविष्यति तरामचिरादवश्यम् ॥ ११५ ॥
अन्तर्वहसि कषायं बाह्याकारेण मधुरतां यासि ।
सहकार मायिविटपिन्युक्तं लोकैर्बहिर्नीतः ॥ ११६ ॥
अथागुरोरन्योक्तयः ।
अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये ।
दर्शितगुणैव वृत्तिर्यस्य जने जनितदाहेऽपि ॥ ११७ ॥
यः परप्रीतिमाधातुं भस्मतामपि गच्छति ।
विवेकमानिनः पश्य धात्रा सोऽप्यगुरुः कृतः ॥ ११८ ॥
आरामाभरणस्य पल्लवचयैरापीततिग्मत्विषः
पाथोद प्रशमं नयागुरुतरोरेतस्य दाघज्वरम् ।
ब्रूमस्त्वामुपकारकातर गतप्रायाः पयःसंपदो
दग्धोऽप्येष तरुर्दिशः परिमलैरापूर्य निर्वास्यति ॥ ११९ ॥