३८४ राजतरङ्गिणी
चन्द्रदैत्येज्यपापेषु खमदात्मजगेषु यत् ।
आहुः सुसंहिताकाराः कौरवादीन्कुलान्तकान् ॥ १७२० ॥
निर्ब्रह्मण्यो जनः कृत्स्नो देशेस्मिन्वैरिणोन्तिकम् ।
दस्योरिव शिरश्छित्वा स्वामिनोपि निनाय तत् ॥ १७२१ ॥
तस्योत्तमाङ्गे भूभर्त्तुश्छिद्यमाने ससागरा |
चकम्पे भूनिरभ्रापि द्यौर्वृष्टिं महतीं जहौ ॥ १७२२ ॥
तन्मुण्डे लगुडारूढे यदयुक्तं जनो व्यधात् ।
अभूत्तेनाभिशापेन सोने दीर्घोपसर्गभाक् ॥ १७२३ ॥
मण्डले देवबिम्बानां यथामुष्मिन्विपाटनम् ।.
तथा नवं प्रववृते भूपतेर्मुण्डखण्डनम् ॥ १७२४ ॥
नैक्षिष्ट तच्छिरः प्राप्तमौचित्यादुञ्चलो नृपः ।
भूत्वा चिरमुदस्रुस्तु कारयामास वह्निसात् ॥ १७२५ ॥
धिक्कष्टं तस्करस्येव तादृशश्चक्रवर्तिनः ।
नोबलानां विना प्राप्ता शरीरेणान्तसत्क्रिया ॥ १७२६ ॥
भृत्यत्यक्तो नष्टवंशो गौरकाख्येण केनचित् ।
स काष्ठागारिणा चक्रे नग्नोनाथ इवाग्निसात् ॥ १७२७ ॥
दीर्घौ हर्षनृपोदन्तः सोयं कोप्यद्भुतावहः ।
रामायणस्य नियतं प्रकारो भारतस्य वा ॥ १७२८ ॥
भाग्याम्बुवाहतडितस्तरलाः श्रियस्ता-
स्तच्चावसानविरसं प्रसभोन्नतत्वम् ।
तत्रापि नैष बत मोहहताशयानां
शान्ति प्रयाति विभवानुभवाभिमानः ॥ १७२९ ॥
तावत्यप्यवरोधिकापरिकरे नैकापि चक्रन्द तं
तावत्स्वप्यनुगेषु नानुसृतवान्कोप्यास्त तीर्थे न वा ।