पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

न सिंहनादैनों भेरीतूर्यघोषैर्न वोन्मदैः ।
शस्त्रशब्दैः स शुशुभे भूपस्यान्तक्षणे रणः ॥ १७०८ ॥
आखोर्भाण्डप्रवेशस्य विडाला इव डामराः ।
परं प्रवेशितास्तस्य निःशब्दं शस्त्रिणः कुटीम् ॥ १७०९ ॥
अथान्यो नीध्रमार्गेण संप्रविष्टः प्रयागकम् ।
हत्वा दोष्णि च शीर्षे च राजानं समुपाद्रवत् ॥ १७१० ॥
राज्ञः प्रहरतः शस्त्रं वञ्चयित्वा स शस्त्रभृत् ।
वक्षसि क्षुरिकाघातद्वयं प्रादात्कृतत्वरः ॥ १७११ ॥
वर्णान्महेश्वरेत्येतान्द्विरुक्ता गतजीवितः ।
पपात निहतो भूमौ छिन्नमूल इव द्रुमः ॥ १७१२ ॥
पलाय्य संप्रविशतो योग्यचौरस्य यादृशः ।
चक्रवर्लपि स प्राप वधं वेश्मनि तादृशम् ॥ १७१३ ॥
नान्यः स इव कालेस्मिन्ददृशे भूतिमान्नृपः ।
गर्ह्यनिर्हरणत्वं च तस्येवान्यस्य नेक्षितम् ॥ १७१४ ॥
यद्वैकेनैव संग्रामवैमुख्येनोन्नतात्मनः ।
सर्वप्रकारसुभगं माहात्म्यं तस्य खण्डितम् ॥ १७१५ ॥
नेयबुद्धित्वमेवासीद्धवा तस्य दूषणम् ।
सर्वक्लेशावहा दोषाः कृत्स्नास्तन्मन्त्रिणां पुनः ॥ १७१६ ॥
द्वाचत्वारिंशतः साष्ट्रमासा यस्य वयः समाः ।
स शुक्लभाद्रपञ्चम्यां हतोब्दे सप्तसप्तते ॥ १७१७ ॥
राजा दुर्योधन इव स्ववंशच्छेदमिच्छता ।
सोभूज्जातकयोगेन कारितः स्वकुलक्षयम् ॥ १७१८ ॥
तस्यास्तां क्ष्मार्कजौ जीवबुधौ शुक्रोष्णगू शशी ।
तनयामित्रजामित्रखेषु कर्कटजन्मनः ।। १७१९ ।।

३८३