अनतिक्रान्तमर्यादान् समृद्धबहुजीवनान् ।
स विद्वद्धीरसंपूर्णानपश्यद् ग्रामवारिधीन् ॥ ३७ ॥
स तेष्वात्मयशःक्षौमवय[१]नस्तम्भसन्ततिम् ।
सप्ततन्तुशताकीर्णां मेने यूपपरम्पराम् ॥ ३८ ॥
इयमेवाग्रहीत् तेभ्यो विद्वद्दत्तमुपायनम् ।
फलमारामवल्लीनामाशिषां च विशां पतिः ॥ ३९ ॥
स बलाक्रान्तकाष्ठान्तः शरीरीव विभावसुः ।
आलोलहेतिसङ्घातस्ततो वनमगाहत ॥ ४० ॥
तद् वनं क्षुभितव्यालं वागुरारुडदिङ्मुखम् ।
कृतमेकपथं व्याघैः सेतुरुद्धमिवोदकम् ॥ ४१ ॥
वाममुत्क्षिप्य दोर्दण्डं सकोदण्डमुदाननाः ।
तस्मिन्नुच्चुक्रुशुर्व्याधाश्चालयन्तस्ततो मृगान् ॥ ४२ ॥
सिंहशार्दूलसारङ्गवराहशरभाम्भसि ।
हरन्तः प्राणशफरान् विविशुस्तस्य पत्रिणः ॥ ४३ ॥
नरेन्द्रवीतिहोत्रस्य हेतिव्रातेषु केवलम् ।
वनावनिविनिर्यातैः शरमैः शलभायितम् ॥ ४४ ॥
एकैकया बाणसूच्या क्षरत्क्षतजसूत्रया ।
हारा इव मृगाः प्रोतास्तन रेजुः शतं शतम् ॥ ४५ ॥
निर्भिध हत्वा हर्यक्षं निर्गतस्तस्य मार्गणः ।
निर्यातानिव तत्प्राणानन्वेष्टुमविशन्महीम् ॥ ४६ ॥
पुण्डरीककुलं तेन गाढलग्नशिलीमुखम् ।
राजहंसेन सहसा लीलयैव निपातितम् ॥ ४७ ॥