02 c राजतरङ्गिणी
क्षामं कण्ठगतप्राणं याचमानं सुतं पिता ।
पुत्रो वा पितरं त्यक्त्वा चकार स्वस्य पोषणम् ॥ २३ ॥
स्नाय्वस्थिशेषे बीभत्से स्वदेहेहंक्रियावताम् ।
अभूगोज्यार्थिनां युद्धं प्रेतानामिव देहिनाम् ॥ २४ ॥
रूक्षाभिभाषी क्षुत्क्षामो घोरो दिश्वक्षिणी क्षिपन् ।
एक एको जगज्जीवैरियेष स्वात्मपोषणम् ॥ २५ ॥
तस्मिन्महाभये घोरे प्राणिनामतिदुःसहे ।
दडशे लोकनाथस्य तस्यैव करुणाईता ॥ २६ ॥
निवारितप्रतीहारः स रत्नौषधिशोभिना ।
दर्शनेनैव दीनानामलक्ष्मीकुममच्छिनत् ॥ २७ ॥
सपत्नीको निजैः कोशैः संचयैर्मत्रिणामपि ।
क्रीतान्नः स दिवारात्रं प्राणिनः समजीवयत् ॥ २८ ॥
अटवीषु श्मशानेषु रथ्यास्ववसथेषु च ।
क्षुत्क्षामः क्ष्माभुजा तेन नहि कश्चिदुपैश्यत ॥ २९ ॥
ततो निःशेषितधनः क्षीणान्नां वीक्ष्य मेदिनीम् ।
क्षपायामेकदा देवीमेवमूचे स दुःखितः ॥ ३० ॥
देव्यस्मदपचारेण ध्रुवं केनापि दुस्तरा ।
जाता निरपराधानां जनानां व्यापदीदृशी ॥ ३१ ॥
धियामधन्यं यस्याग्रे लोकोयं शोकपीडितः ।
पश्यन्नशरणामुर्वीमनुग्राह्यो विपद्यते ॥ ३२ ॥
प्रजा निःशरणा एता अन्योन्यं बान्धवोज्झिताः ।
अरक्षतो भयेमुष्मिन्कि कार्य जीवितेन मे ॥ ३३ ॥
यथाकथंचिल्लोकोयं दिनान्येतानि यत्नतः ।
मयातिवाहितः सर्वो न च कोपि व्यपद्यत ॥ ३४ ॥