तिङन्तप्रकरणम् ।
तिङन्तप्रकरणम् ।
‘अदिप्रभृतिभ्यः शपः । (२ । ४ । ७२) ' इति लुग्विधेः, 'जुहोत्या-
दिभ्यः श्लुः’ (२-४-७५) इति श्रुविधेश्चानन्तरमेव 'बहुलं छन्दसि' इति
सूत्रितमाचार्येण । तेन लुक्श्लू अन्येष्वपि गणेषु भवतः । यथा-
त्राध्वं नो देवाः – त्रायतिर्भूवादिः ।
वृत्रं हनति । अहिः शयते – आदादिकयोरपि न लुक् ।
पूर्णां वि॑िवष्टि—वंश कान्तौ आदादिकः – तत्र क्षुः ।
दाति प्रियाणि – ददातेः शपो लुक् ।
-
Plefipm विकरणप्रत्ययविधानान्ते सूत्रम्-
२३
(१८२५) व्यत्ययो बहुलम् । ३ । १ । ८५ ।
शबादीनां बहुलं व्यतिक्रमः स्यात् । यत्र विहितस्ततोऽन्यत्र प्रवृ
त्तिरेकत्रैव द्वयोस्त्रयाणां वा युगपत् प्रवृत्तिश्च द्रष्टव्येत्यर्थः । यथा-
अण्डा शुष्मस्य भेदति—भिनत्तेः शप् । स न मरति –म्रियतेः शप् ।
इन्द्रो वस्तेन नेषतु – सिपशपौ द्वौ । इन्द्रेण युजा तरुषेम वृत्रं – उ-सिप्-शपः त्रयः ।
विकरणप्रत्ययानामुत्पत्तिरेतावता स्फुटीभवति । रूपसौष्ठवाय
प्रथमं धातोः पुरुषप्रत्ययानां च मध्ये यथायोगमायोजितास्ते क्रमेण
तत्तद्धातुषु प्रतिनियता आसन्निति । एकस्यैव धातोर्विकरणद्वये प्रयोगो
sद्यापि दृश्यते । यथा- क्लिश्नाति, क्लिश्यति । भ्रमति, भ्राम्यतिं ।
-
C
धूनोति चम्पकवनानि धुनोत्यशोकम्
चूतं धुनाति धुवति स्फुटितातिमुक्तम् ।
वायुर्विधूनयति केसरपुष्परेणुन्
यत् कानने धवति चन्दनमञ्जरीश्च ॥ '
नामप्रकरणे यथा भपदसंज्ञयोरव्यवस्थोक्ता तथा धातुप्रकरणे सार्व-
धातुकार्द्धधातुकयोः-
-
(१८२६) छन्दस्युभयथा । ३ | ४ | ११७I
धातोर्विहिताः प्रत्ययाः प्रक्रियानुरोधेन उभयसंज्ञा अपि स्युः
पृष्ठम्:Laghu paniniyam vol2.djvu/३४
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति