पृष्ठम्:Laghu paniniyam vol2.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिङन्तप्रकरणम्
यथा - वर्द्धन्तु त्वा सुष्टुतयः - वर्द्धयन्त्वित्यर्थः । शप आर्द्धधातुकत्वाण्णि-
लोपः । विश्वण्विरे – लिटः सार्वधातुकत्वात् लः शृभावश्च ।
अनेन धातुभ्य उत्पन्नानां प्रत्ययानां सार्वधातुकार्द्धधातुकत्वाभ्यां
द्वैविध्यं प्रकल्प्य प्रक्रियाव्यवस्थापनमर्वाचीनमिति स्फुटम् । एवमेव भप-
दसंज्ञाभ्यां नामविषये ।
अथ तिङ्प्रत्ययानां प्रायिकाः केचिद्विकारा उच्यन्ते-
(१८२७) अमो मश् । ७ । १
। ४० ।
मिबादेशस्य अमो मशादेशोऽपि स्यात् । अकार उच्चारणार्थः ।
शित्त्वं सर्वादेशत्वार्थम् । म् इत्यादेशस्वरूपम् । तिप्सिपोरिव मिपोऽपि
इकारलोपः फलति । यथा-
वध वृत्रम् । क्रम वृक्षस्य शाखाम् ।
लुङि बाहुलकादडभावः ; मिपोऽपृक्तत्वादीडागमे सिज्लोपः ।
(१८२८) लोपस्त आत्मनेपदेषु । ७ । १ । ४१ ।
तः = तकारस्य । आत्मनेपदप्रत्ययेषु तकारस्य लोपः कदाचित्
-
स्यात् । यथा-
गन्धर्वाप्सरसो अदुह – अदुहतेति तकारस्य लोपः।
'शीङो रुट्' इत्यतः परं 'बहुलं छन्दसि' इत्युक्तत्वात् रुडागमः ।
दुहामश्विभ्यां पयो अघ्न्येयं - दुग्धामिति तकारस्य लोपः ।
दक्षिणत: शये । — शेते इति
"
-
(प्रत्यु) – (आत्मनेपदेषु किं ? ) वत्सं दुहन्ति कलशम् ।
(प्रायिकत्वात्) आत्मानमनृतं कुरुते ।
(१८२९) ध्वमो ध्वात् । ७ | १ | ४२ । यथा-
अन्तरेवोष्माणं वारयध्वात् – वारयध्वमित्यर्थः ।
(१८३०) तस्य तात् । ७ । १ । ४४ ।
लोण्मध्यमबहुवचनस्य तस्य क्वचित् तादित्यादेशः
गात्रं गात्रमस्या नूनं कृणुतात् । -कृणुतेत्यर्थ:
-
। यथा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/३५&oldid=347274" इत्यस्माद् प्रतिप्राप्तम्