पृष्ठम्:Laghu paniniyam vol2.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिङन्तप्रकरणम् ।
(१८३१) तप्तनतनथनाच । ७ । १ । ४५ ।
लोण्मध्यमभूततप्रत्ययस्यैव । यथा-
शृणोत ग्रावाणः – तप्, पित्त्वात् गुणः ।
ता न ऊर्जे दधातन – धत्तेत्यर्थः ।
जुजुष्टन–जुषेश्छान्दस: श्लः; जुषतेत्यर्थः ।
यदिष्ठन-इच्छतेत्यर्थः । इषेस्थने शपो लुक् ।
(१८३२) इदन्तो मसिः । ७ । १ । ४६ ।
मस् इत्युत्तमबहुवचनं 'मसि' इतीदन्तमपि स्यात् । यथा ॥
पुनस्तां दीपयामसि । शलभं भञ्जयामसि ।
अथ लकाराः——
-
(१८३३) छन्दसि लुङ्लङ्लिटः (अन्यतरस्यां) । ३ । १ । ६ ।
सर्वेषु कालेषु वा लुङ्लङलिटश्छन्दसि । यथा-
-
अहं तेभ्योऽकरं नमः – वर्तमाने लुङ्, कृञश्च्लेश्छन्दस्यङ् ।
अग्निमद्य होतारमावृणीतायं—वृणोतीत्यर्थे लङ् ।
अद्याममार—म्रियते इत्यर्थे लट् ।
(१८३४) लिडर्थे लेट् । ३ । १ । ७ ।
विध्यादिषु हेतुहेतुमद्भावादिषु च लिङर्थेषु वा लेट् ।
(१८३५) उपसंवादाशङ्कयो | ३ | १ | ८।
उपसंवादः परिभाषणं, कर्तव्ये पणबन्धः यदि मे भवानिदं कुर्या-
दहमपि भवत इदं करिष्यामीत्येवंरूपः । कारणतः कार्यानुसरणमाशङ्का ।
अनयोरपि लेट् । यथा --
अहमेव पशूनामीशै - उपसंवादः ।
नेज्जिह्मायन्तो नरकं पताम- आशङ्का
-
(5)
लेट्प्रक्रिया ।
1516
(१८३६) लेटेोऽडाटौ । ३ । ४ । ९४ | Jh
लेटस्तिङामडाटावागमौ पर्यायेण स्याताम् । यथा
जोषिषत् । पताति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/३६&oldid=347275" इत्यस्माद् प्रतिप्राप्तम्