व्यञ्जनविकारः ।
-
मपरे हकारे परे मस्य म एव, नपरे नकारश्च, वा स्यात् । यथा-
किम् ह्यलयति, किं ह्यलयति । किन् हुते, किं हुते ।
॥ * ॥ यवलपरे यवला वा ॥ यथा--
कियँह्यः, किंह्यः। किवँक्कलयति, किंह्वलयति ।
किलँह्लादयति, किंह्लादयति ।
(१८०३) ङ्णोः कुकूटुकच्छर |८|३|२८|
पदान्तयोर्डकारणकारयोः कुकटुकावागमौ वा शरि । यथा--
प्राङ्क्षष्ठः, प्राङ्क्षष्टः । सुगण्ट् षष्टः, सुगणूषष्ठः ।
(१८०४) डः सिधुद् । ८ । ३ । २९ ।
(१८०५) नश्च | ८ | ३ । ३० ।
पदान्तात् डकारात् नकाराच्च परस्य यस्य धुडागमः । - यथा - स
षट्त्सन्त:, षट्सन्त: | सन्त्सर्वः, सन्सर्वः ।
विसर्जनीयस्य सत्वविधौ-
(१८०६) छन्दसि वाप्राम्रेडितयोः । ८ । ३ | ४९ ।
विसर्गस्य सादेशः कुप्वोः, प्रशब्दे आम्रेडिते च न ।
यथा – उरुणःकारुः, उरुणस्कारुः । अयःपात्रं, अयस्पात्रम् ।
-
१७
(१८०७) कःकरत्करतिकृधिकृतेष्वनदितेः । ८ । ३ । ५० ।
एषु परेषु विसर्गस्य सः, नत्वदितिशब्दगतस्य । यथा -
विश्वतस्कः, विश्वतस्करत् । पयस्करति । उरुणस्कृधि इत्यादि ।
(१८०८) पञ्चम्याः परावध्यर्थे । ८।३।५१ ।
,
-
पञ्चमीविसर्गस्य सः अध्यर्थके परिशब्दे परे । यथा - दिवस्परि प्रथमं जज्ञे ।
अग्निर्हिमवतस्परि ।
(१८०९) पातौ च बहुलम् | ८| ३ | ५२ ।
'पातु' इत्यास्मन् परे विसर्गस्य बहुलं सत्वम् । यथा--
दिवस्पातु । राजस्पातु । परिषदः पातु ।
(१८१०) षष्ठयाः पतिपुत्रपृष्ठपारपदपयस्योषेषु । ८ । ३ । ५३ ।
बाचस्पतिं विश्वकर्माणमूतये । दिवस्पुत्राय सूर्याय । इत्यादि । षत्वविधौ–
(१८११) युष्मत्ततश्रुष्वन्तःपादम् | ८ | ३ | १४|
3
पृष्ठम्:Laghu paniniyam vol2.djvu/२८
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति