सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol2.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषोपचयः ।
भाषागतिः । ततश्च संस्कृतेऽपि स्मृतिष्वितिहासेषु च विद्यन्त आर्षसंज्ञिता
व्याकरणविरुद्धाः प्रयोगाः । भासाश्वघोषकाळिदासप्रभृतयः प्राचीनाः
कवयः कदाचिच्छब्दानुशासनमुलुंध्य निरङ्कुशं प्रयुञ्जते । कालिदासादर्वाञ्च
एव लक्षणैकशरणाः |
1
6
वैदिकभाषायामप्येवं भाविनो विकारस्य प्राग्रूपं पश्यन् पाणिनिः ‘उभ
यथर्क्ष' (८ । ३ । ८ ) 'यजूप्युरः' ( ६ | १ | ११७ । ) 'देवसु-
म्नयोर्यजुषि काठके' ( ७ | ४ | ३८ ) 'यज्ञकर्मण्यजपन्यूङ्घसामसु'
। ।
( १ । २ । ३४ ) द्वितीया ब्राह्मणे' ( २ । ३ । ६० ) इत्यादिवत्
केषाञ्चिद्विधीनां लक्ष्याण्यपि विविच्य निर्दिशति । क्वचित् 'वा षपूर्वस्य
निगमे' ( ६ । ४ । ९) इति निगमशब्दं, 'मन्त्रे घसंवरणश....'
( २ । ४ । ८० ) इति मन्त्रशब्दं च व्यापकतरं गृह्णाति । प्रायश-
स्त्वाचार्यश्छन्दश्शब्दमेव प्रयुङ्गे । छन्दश्शब्देन च छन्दोनिबद्धो मन्त्र
एव विवक्षित इति नियमो न कृतः । 'छन्दसि पुनर्वस्वोरेकवचनं (अन्य-
तरस्यां)' (१ । २ । ६१) इति सूत्रेण विहितं ह्येकवचनं 'पुनर्वसुर्नक्षत्र-
मदितिर्देवता' इति छन्दोहीने यजूषि दृश्यते । अतः 'छन्दमी' ति पदं
वैदिकभाषासामान्यवाचकं, इतराणि तु विशेषवाचकानीति बोध्यं । निग-
मशब्दोऽप्यर्थस्वारस्यात् सामान्यवाचक एव स्यात् ; किन्तु स त्रिचतुरेष्वेव
सूत्रेषूपात्तः । 'सम्बुद्धौ शाकल्यस्येतावनार्षे'( १ । १ । १६) इत्यार्षशब्दोऽ
प्येकत्र सूत्रे छन्दःपर्यायो दृष्टः । भाष्यकारोऽपि भाषाशास्त्रदृष्ट्या वेदेष्व-
स्त्येव प्राचीनतातारतम्यमिति मन्यते । यदाह प्रारम्भ एव - "अथ शब्दा-
नुशासनं । केषां शब्दानां ? लौकिकानां वैदिकानां च । तत्र लौकिका -
स्तावत्गौरश्वः पुरुषो हस्ती शकुनिर्मृगो ब्राह्मण इति । वैदिकाः खल्वपि-
‘शन्नो देवीरभिष्टये' (अथर्वा) 'इषेत्वोर्जेत्वा' (यजुः) 'अग्निमीले पुरोहितं’
(ऋक् )'अग्न आयाहि वीतये' (साम)" इति । अत्र वेदानां निर्देशे अभ्य-
हितत्वनिबन्धनं क्रममुत्सृज्य अथर्वादिसामान्तं परिगणनमर्वाचीनताक्रमा-
नुरोधादेवेति स्पष्टम् । लौकिकाः शब्दा अद्यतनाः; ततः प्राचीना अथ-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१९&oldid=347257" इत्यस्माद् प्रतिप्राप्तम्