संज्ञाप्रकरणम् ।
र्वसु दृष्टाः, ततोऽपि यजुषि, ततश्च ऋचि, सामसु प्राचीनतमा इति ।
एतेन वेदानामनादित्वस्यापौरुषेयत्वस्य वा न क्षतिः । अकर्तृकत्वं नामा-
ज्ञातकर्तृकत्वमित्येव तार्किको ब्रूयात् । ब्रह्मणो मुखाद् ब्राह्मणैरधिगता
श्रुतिरिति वादस्तु युत्तय महत्वादर्थवादमात्रमिति वेदान्तिनोऽपि सम्मन्येरन् ।
अत ईदृशेषु विचारेषु आस्तिक्यभङ्गो न शङ्कनीयः । किञ्चिीिर्घोऽप्ययमु-
पोद्घातो लौकिकवैदिकभेदस्यावधारणार्थमुपकारष्यति ।
अथ लौकिकप्रक्रियायामुपात्तैरेव प्रकरणैर्विभज्य छान्दसानि सामा-
न्यसूत्राणि, यथाप्राधान्यं विशेषसूत्राणि च व्याख्यास्यामः । —तत्र
प्रथमम्
संज्ञाप्रकरणम् ।
लोकवेदसाधारणमेव संज्ञापरिभाष कृतमाचार्येण । तथापि कासा-
ञ्चित् संज्ञानां छन्दसि विषयस्य संकोचो विकासो वोपदिष्टः । सोऽत्र
निर्दिश्यते। घिसंज्ञाविधौ ‘पतिः समास एव' ( १८८) इति नियममु-
पदिश्य
स्यात् ।
(१७६६) षष्ठीयुक्तश्छन्दास वा । १ । ४ । ९ ।
समासाभावेऽपि षष्ठ्यन्तेन युक्तः पतिशब्दः छन्दसि वा घिसंज्ञः
क्षेत्रस्य पतिना वयम्
(१००१)
उदीर्ध्व नार्याभ जीवलोकं गतासुमेकमुपशेष एहि । शी
हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभिसम्बभूथ । ऋक्-सू-१०-१८-८
'सीतायाः पतये नमः' ।
इति लोकेऽपि प्रयोगश्छान्दसानुकरणं स्यात् ।
अथ भपदसंज्ञाविधौ-
(१७६७) अयस्मयादीनि च्छन्दसि | १ | ४ |२०
॥ * ॥ उभयसंज्ञान्यपीति वक्तव्यम् ||
पृष्ठम्:Laghu paniniyam vol2.djvu/२०
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति