पृष्ठम्:Laghu paniniyam vol2.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैदिककाण्डः ।
अयस्मयादयः शब्दा भसंज्ञाकार्य पदसंज्ञाकार्य च लभेरन्निन्यर्थः ।
अयस्मयम् इत्यत्र भसंज्ञया न रुत्वम् । यथा-
अयस्मयानि पात्राणि । न सुटुभास ऋक्वता गणेन ।
उत्तरोदाहरणे ऋता इत्यत्र पदत्वात् कुत्वं, भत्वात् न जश्त्वम् । एव
मन्यत्रापि भकार्याणि पदकार्याणि च युगपद्यत्ययेन वा द्रष्टव्यानि ।
उपसर्गाः क्रियायोगे ( १३४) गतिश्च (१३४) इत्यतः परम्
(१७६८) ते प्राग्वातोः । १ । ४ । ८० ।
(१७६९) छन्दसि परेऽपि । १ । ४ । ८१
(१७७०) व्यहिताच । १ । ४ । ८२ ।
उपसर्गा लोके धातोः प्रोगेव प्रयोक्तव्याः; छन्दसि तु न कोऽपि
स्थाननियमः । यथा -
हन्ति नि मुष्टिना – निहन्ति ।
आ मन्त्रैरिन्द्र हारीभर्याहि मयूररोमभिः-आयाहि
सन्धिप्रकरणम् । (203)
प्रथमयोः पूर्वसवर्णनिषेधो
(१७७१) बाच्छन्दसि । ६ । १ । १०६ ।
दीर्घाज्जतीचि च निषिद्धः पूर्वसवर्णदीर्घः छन्दसि वा । यथा -
-
मानुषीरीळते विशः– मानुष्य इत्यर्थः ।
उशतीवि मातरः - उशयः ।
-
एङ: पदान्तादति (५५) इतिं पूर्वरूपविधिप्रस्तावे-
(१७७२) प्रकृत्यान्तःपादमव्यपरे । ६ । १ । ११५ ।
एङ: पदान्तादित्येतदन्वयानुरोधात् एङ् पदान्त इति प्रथमया विप
रिणम्यते । पदान्त एङ् अति परे प्रकृत्या स्यात् । स चेदत् वकारयका-
रपरो न भवति । पादस्यान्तः अन्तःपादम। ऋपाद एव विवक्षितः । यथा-
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/२१&oldid=347259" इत्यस्माद् प्रतिप्राप्तम्