भाषापचयः ।
अथ प्राकृतेष्वप्येवं विद्याप्रचारार्थकेन विनियोगेन व्यवस्थाप्य
मानषु तेभ्यः प्राकृतान्तराण्युदभूवन्; य इमेऽपभ्रंशा इत्युच्यन्ते । एवमे-
कैकस्यापि प्राकृतस्य बहवोऽपभ्रंशा अजायन्त । एतेऽपभ्रंशा एवाद्यतनी-
नामौत्तराहभाषाणां मातृस्थानं वहन्ति । प्राकृतानां नानात्वे तावद्देश भेदो
भाषान्तरसंसर्गश्च हेतुः । इह हि नवान् निवेशदेशानन्विष्य पर्यटन्त
आर्यजनाः सङ्घशः सङ्घशः तदा तदागत्य भारतभूमिमध्यवात्सुरिति
निर्णितं चरित्रकारैः । तत्र विन्ध्यहिमालययोर्मध्यपतितत्वात् 'मध्यदेश'
इति प्रथितमार्यावर्तमधिवसन्तो वर्गाः परिसरभूवासिभ्यः स्ववर्गेभ्यः
सर्वथा प्रबलतरा बभूवुः । प्रबलानां व्यावहारिकी भाषैव प्रथमं वैदिकी
पश्चात् संस्कृतात्माना परिणता च दृश्यते । प्राकृतानि तु परिसरवासिना-
मार्याणामेव किञ्चित् किञ्चिद्विलक्षणाभिर्भाषाशाखाभिस्संसृष्टानि कूटस्थाद्दूर-
विप्रकृष्टानि लक्ष्यन्ते । प्राकृतानां पुनरपभ्रंशा आरभीयवनीप्रभृतिविगोत्र-
भाषाणां संश्लेषेण दूरतरमाविष्कुर्वन्ति विप्रकर्षम् । मध्यदेशभाषाया एव
प्राच्योदीच्यादिभेदेन आन्तरालिका विभागा आसन्नित्यप्यनुमीयते
अन्यथा 'तुमर्थेसे-....' इति पाणिन्युक्तरीत्या एकस्य संस्कृते दृष्टस्य
तुमुन् प्रत्ययस्य स्थाने वैदिकभाषायां नानाप्रकाराणां प्रत्ययानामुपलब्धिः
कथसुपपद्यते ? किञ्च संस्कृतेऽपि पाणिनिः प्राचामुदीचां च मतभेदानुपदि-
शति । अपिच ‘सहस्रशाखाः श्रुतयः प्रथन्ते' इति वचनं भाषावलक्षण्य-
कल्पनामप्यनुकूलयति । मन्त्रद्रघृणामृषीणीणां गोत्रभेदमनुसृत्य तत्तद्दृष्टानां ?
मन्त्राणां नामाख्यातरूपेषु अनुगतं यत् किञ्चिद्वैलक्षण्यमुपलभ्यते वा न
वेति परीक्ष्यैवात्र निर्णयः प्रतिपत्तव्यो वर्तते ।
योऽयमत्र संस्कार उक्तः, स न पञ्चषैर्वषैरपि वा पुरुषायुषैर्न्निप्पन्नः
किन्तु महता परिवर्तेनैव कालस्य । ईदृशा हि विकारा नैकपदे संभवन्ति ।
अतो वैदिकेष्वेव ग्रन्थेषु दृश्यते विक्रियोन्मुखी समवस्था । तथाहि यावन्त
ऋमन्त्रेषु न तावन्तः सन्ति विलक्षणाः प्रयोगा यजुषि; अथ
यावन्तो न तावन्तो ब्राह्मणेषु । आरण्यकेषूपनिषत्सु च प्रायः संस्कृतप्राया
पृष्ठम्:Laghu paniniyam vol2.djvu/१८
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति