लोकवेदभेदः ।
इत्येकादशवारमावृत्य सूत्रितमाचर्येण । व्याख्यातारस्त्वेकमपि पदमध्य ?
‘सर्वे विधयश्छन्दसि वैकल्पिकाः ' ' च्छन्दसि दृष्टानुविधिः' इति सार्वत्रि-
कीमुशन्त्यव्यवस्थाम् । तथाच वार्तिककारिका-
'सुप्तिदुपग्रहलिङ्गनराणां कालहलचस्वरकर्तृयडां च ।
व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन' ॥
उपग्रह आत्मनेपदपरस्मैपदविभागः । नरः प्रथमादिपुरुषव्यवस्था; कर्ता
कारकं; प्राय इमे व्यत्ययाः प्रारंभ एवास्माभिरुदाहृताः ।
Tho
यदत्र वैदिकमित्युक्तं तच्छन्दश्शब्देन, यदत्र लौकिक मित्युक्तं
तत् भाषाशब्देन च व्यवहरति पाणिनिः । वयं तावदधुनातना आविशे-
•षितेन भाषाशब्देन पण्डितपामरसाधारणी देश्यभाषां व्यपदिशामः । यदि
संप्रदायस्यास्य पाणिनेर्जीवितकालेऽपि प्रचार आसीत्तर्हि तेषु दिनेषु संस्कृतं
माहराष्ट्रीद्रावीडीप्रभृत्यद्यतन जीवद्भाषानिविशेषमेव प्राचरदिति वक्तुं शक्यते ।
किन्तु संभावनामात्रमिदमिति मन्यामहे । तथाहि प्रथमतः, यदिदं समस्क्रि-
यत तत् संस्कृतस्य संस्कृतत्वमित्यवोचाम | संस्काराश्च प्रायः पण्डितमात्र-
वेद्याः । कथमकृतविद्या भारवाहकादयः पामरा उभयतोभाषोऽयं धातुः ;
अतः कर्त्रभिप्राये क्रियाफले, आत्मात्मनेपदं कार्य, अन्यत्र परस्मैपदमि- १
त्यादीनि प्रयोगस्वारस्यानि जानीयु: ? ज्ञात्वापि वा कथन्तरां अद्यतनान-
द्यतनादिषु कालेषूचिततमं निर्णीय सेवानिव-पित्त्वङित्त्वादिनिबन्धनैः
प्रक्रियाविशेषैनिष्पादनीयानि लुङादीनां रूपाणि यथावत् प्रयुञ्जीरन् ?
द्वितीयतः, व्याकरणप्रयोजनविचारप्रस्तावे "अभिवादे स्त्रीवन्मा भूमेत्य -
ध्येयं व्याकरणम्" इत्याह महाभाष्यकारः । अनेन ज्ञायते पतञ्जलेः कालेषु
स्त्रियः लुतविधावनभिज्ञा अभवन्निति । अतः स्त्रीभिः, सुतरां चाकृतविद्यैः
पुरुषै:, शुद्धं संस्कृतं नाभाष्यतेति ज्ञायते । तृतीयतः, नाटककर्तारः
कृतविद्यानामपि स्त्रीणां नीचपात्राणां च वचनेषु प्राकृतं प्रयुञ्जते । लिङ्ग-
रेभिरनुमीयते विद्वद्गोष्ठीष्वेव संस्कृतं प्रचारत, गृह्यास्तु व्यवहारा केनापि १
सर्वजनीनेन भाषान्तरेण निरवर्त्यन्तेति ।
व्यवहाराः केनापि
पृष्ठम्:Laghu paniniyam vol2.djvu/१६
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति