वर्णवैलक्षणोपेतान् विन्यस्य देवतागणान् ॥
सायुधान् सपताकाँश्च सातपत्रं शतक्रतुम् ।
दिग्गजानां तु विन्यासमौषधीभ्यः प्रकल्पयेत् ॥
ऐरावतं दले शाक्रे लाजाभिर्विन्यसेद्बुधः ।
नागपुष्पमयं पद्ममाग्नेये विन्यसेद्दले ॥
पुष्पदन्तस्तथा याम्ये नागः कार्यः प्रियङ्गुभिः ।
तथा च नैर्ऋते पत्रे नागपुष्पेण वा गजः ॥
वायव्ये चाञ्जनं पत्रे माषैः कुर्याद्विचक्षणः ।
नीलश्च पत्रे कौवेरे राजपुष्पमयो भवेत् ॥
ऐशाने कुमुदं कुर्यान्नागेन्द्रं सिततण्डुलैः ।
ततश्च शमनं कार्यं सोपवासेन भार्गव ॥
सर्वासां पूजनं कुर्याद्देवतानां पृथक् पृथक् ।
अस्त्राणां कुञ्जराणां च पद्मादीनां तथैव च ॥
तोरणेषु निविष्टानां तार्यादीनां पृथक् पृथक् ।
सागराणां च कुम्भेषु गन्धमाल्यानुलेपतः ॥
धूपैर्दीपैर्नमस्कारैर्वासोभिश्च पृथक् पृथक् ।
भूरिणा च तथाऽन्नेन पानैश्च विविधैस्तथा ॥
कुल्माषपरिमाणाभ्यां पूज्यास्ते कृसरेण तु ।
मोदकोल्लेपिकाभक्ष्यैः सितान्नगुडपाचितैः ॥
माषोदनपयःक्षौद्रदधिदुग्धैश्च शक्तुभिः ।
एवं संपूजनं कृत्वा शङ्कवाद्यरवैर्युतम् ॥
गीतेन च महाभाग सुभगानर्त्तनेन च ।
ततस्तु पूजनं कृत्वा पूजास्थानात् तथाऽप्युदक् ॥
पृष्ठम्:अद्भुतसागरः.djvu/६२८
दिखावट
पुटमेतत् सुपुष्टितम्
६२१
गजाद्भुतावर्त्तः ।