सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४


देशः । स 'दक्षिणपञ्चालाः ' ' उत्तरपञ्चालाः' इति द्विधा विभक्त आचर्मण्वत्या वितत आसीत् । []कान्यकुब्जम् अत्रान्तर्भूतम् । इमं देशं पाण्डवानां []श्वशुरो द्रुपदः पालयामास । उत्तरपञ्चालेषु 'अहिच्छत्रा' राजधानी; दक्षिणपञ्चालेषु []'काम्पिल्यम् ' । हरिद्वारात् पूर्वतोऽलकनन्दाया वामतो []ब्रह्मपुरराज्यम् अस्ति ।

शूरसेनाः--'शूरसेनदेशः ' श्रीकृष्णस्य []जन्मस्थानम् । ‘गोकुलं’ []‘बृन्दावनं' []'मथुरा' []'अग्रवणम्' इति नगराण्यनेन सम्बद्धानि ।

श्रीकृष्णस्य मातुलस्तेन निहतः कंसो नाम राजा मथुराम् इमां राजधानीं चकार ॥

मत्स्याः --'मत्स्यदेशो' विराटस्य राज्ञो राज्यं, यत्र पाण्डवा वर्षमेकम् अज्ञातवासम् अकुर्वन् । ‘मच्छरि' इति प्रसिद्धा []मत्स्यपुरी तस्य राजधानी सम्भाव्यते ॥


  1. Kanouj.
  2. Father-in-law.
  3. Kampil.
  4. Kuma
  5. Birth place.
  6. Brindavan.
  7. Muttra.
  8. Agra.
  9. Machheri. (Alwar state).