सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५


 उत्तरकोसलाः-- स []’कोसलदेशो’, यत्र ’अयोध्या' []’शरावती` इति प्रसिद्धे नगरे; []’लक्ष्मणपुरी' च। अत्र गोमती सरयूस्तमसेति नद्यो वहन्ति। इदं दिलीपादीनां सुर्यवंश्यानां राज्यम्‌ आसीत्‌ । श्रीरामः स्वर्गम्‌ आरोक्ष्यन्‌ स्वसूनुं लवं शरावत्यां राजानं निवेशयामास; कुशं च कुशावत्यां ’दक्षिणकोसलेषु’ । []'विदर्भदेशं ` च दक्षिणकोसलान्‌ वदन्ति ॥

 नेपालाः--[]’नेपालदेशो’ हिमालयस्य सानौ वर्तते । अत्र पावनी गण्डकी नाम नदी वहति, या सालग्रामशिलानां महार्घाणाम्‌ आकरः । अत्र बुद्धमुनेजन्मभृमिः ’कपिलवस्तु’ नाम महानगरं सन्निविष्टम्‌ ॥

 विदेहाः--याज्ञवल्क्यमहर्षः शिष्यो बह्यज्ञानीति य उपनिषत्सु श्रूयते जनको नाम, तस्य ’विदेहदेशो` राज्यम्‌ आसीत्‌ । एष नेपालदेशाद्‌ दक्षि-


  1. Oudh.
  2. Sahet Mahet. शरावती श्रावस्तीत्यप्युच्यते.
  3. Lucknow
  4. Berar.
  5. Nepal.