एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
कृष्णवेणी-'[१]कृष्णवेणी' अपरपर्वतभागाद् ’[२]महाबलीश्वरात्' प्रस्थाय '[३]भीमरथीं' '[४]तुङ्गभद्रां' च गृहीत्वा महोदधिम् आविशति । अस्याः स्रोतः [५]७५० क्रोशान् वहति । एषा 'कृष्णा' इत्युच्यते ॥
पिनाकिनी –'[६]पिनाकिनी' '[७]महिषपुरस्य' पूर्वतो [८]नन्दिदुर्गात् प्रस्थायोत्तरेण पूर्वेण च पथा क्रमशः प्रवहन्ती वङ्गसमुद्रेण सङ्गमं प्राप्नोति । अस्त्यन्या पिनाकिनी, यास्या [९]दक्षिणाहि प्रवहन्ती पूर्वाब्धिम् आविशति ॥
[१०]क्षीरनदी —–नन्दिदुर्गस्यादूरे ‘क्षीरनद्याः' प्रभवो वर्तते । [११]चेन्नपुरस्य पश्चिमतः पूर्वपर्वतश्रेणीभागाद् यानि प्रस्रवणानि स्रवन्ति, तैरेषा परिपुष्टा समुद्रम् अवतरति ॥