उत्तराश्चैव पाल्गुन्य एतद्वायव्यमण्डलम् ॥
वायव्ये शस्त्रकोपः स्यात् क्षीरे सर्पिर्न जायते ।
पांशुवृष्टिर्महाघोरा स्यादायासस्तथोल्वणः ॥
प्राकारतोरणारामाः प्रपतन्ति महीतले ।
पक्षिणो भूतलं यान्ति वायुवेगसमाहताः ॥
मद्रकाः यवनाश्चैव काम्बोजा वाह्लिकास्तथा ।
गान्धाराश्च विरुध्यन्ते विनश्यन्ति पुराणि च ॥
मयूरचित्रे तु ।
स्वातिहस्ताश्विनीचित्रामृगशीर्षपुनर्वसु ।
उत्तराफाल्गुनी चेति वदन्त्येतं तु मारुतम् ॥
अस्त्रवर्षं महाघोरं ज्वरदाहः प्रवर्त्तते ।
प्रासादतोरणं वेश्म प्रपतन्ति महीतले ॥
चैत्यवृक्षास्तथा हर्म्यं तथा देवकुलानि च ।
भूमौ प्रणिपतन्त्याशु वायुवेगसमीरिताः ॥
वारुणा वाह्लिका मत्स्या हूणाः पारसिकास्तथा ।
परस्परं विरुद्धाः स्युर्व्याधयः प्रभवन्ति च ॥
न च वर्षति पर्जन्यो नष्टशस्या वसुन्धरा ।
सधूमाश्च दिशः सर्वाः शुष्यन्ति सलिलाशयाः ॥
वराहसंहितायाम् ।
चत्वार्यार्यम्णद्यान्यादित्यं मृगशिरोऽश्वयुक् चेति ।
मण्डलमेतद्वायव्यमस्य रूपाणि सप्ताहात् ॥
वायव्ये भूकम्पे शस्याम्बुवनौषधीक्षयोऽभिहितः ।
श्वपथु श्वासोन्मादज्वरकाशभवो वणिक्पीडा ॥
रूपायुधमृद्वैद्यस्त्रीकविगान्धर्वशिल्पिपुण्यजनाः ।