भवताऽपि तथा हि दृश्यदेहाग्रहमन्तस्य जडत्वमभ्युपेयम् ।
परिशिष्टमुपेयमेकरूपं ननु किञ्चिद्धि तदेव तस्य रूपम् ॥५५
जगतोऽसत एवमेव युक्त्या स्वनिरूध्यत्वत एत्र कल्पितत्वात् ।
तदधिष्ठितभूतरूपमेष्यं ननु किञ्चिद्धि तदीश्वरस्य सत्यम् ॥४६
तदिह श्रुतिगोभयस्वरूपे निरुपाधौ न हि मौढ्यसर्वविवे ।
न जपाकुसुमात्तलोहितिनः स्फटिके स्यान्निरुपाधिके प्रसक्तिः ॥ ५७
अपि भेदधियो यथार्थतायां न भयं भेदहश: श्रुतिर्ब्रवीतु ।
विपरीतदृशो ह्यनर्थयोगो न भिदाघीर्विपरीतधीर्यतः स्यात् ॥ ५८
अभिदा श्रुतिगाऽप्यतात्रिकी चेत्पुरुपार्यश्रवणं न तद्गतौ स्यात् ।
अशिवोऽहमिति भ्रमस्य शास्त्राद्विधुमानत्वगतेरिवास्ति बाधः ॥ ५९
तदबाधितकल्पनाशतिनों श्रुतिसिद्धात्मपरैक्यबुद्धिबाधः ।
निगमात् मत्रलं विलोक्यते माकरणं येन तदीरितस्य बाधः ॥६०
ऋषिभिर्बहुधा परात्मतन्त्रं पुरुषार्थस्य च तत्त्वपप्पथोक्तम् ।
तदपास्य निरूपितमकारो भवताऽसौ कथमेक एव धार्य: ॥६१
प्रवलश्रुतिमानतो विरोधे बलहीनस्मृतिवाच एव मेया: ।
[१] इति नीतिबलात्तूयीविरुद्धं न ऋषीणां वचनं प्रमात्वमीयात् ॥ ६२
ननु युक्तियुतं महर्षिवाक्यं श्रुतिवद्ग्राह्यतमं परं तथा हि ।
प्रतिदेहमसौ विभिन्न आत्मा सुखदुःखादि विचित्रतावलोकात् ॥ ६३
यदि चाऽऽत्मन एकता तदानीमतिदुःखी युवराजसौख्यमीयात् ।
अमुक : ससुखोऽमुस्तु दुःखीत्यनुभूतिर्न भवेत्तयोरभेदात् ॥ ६४
अयमेव विदन्वितश्च कर्ता न हि कर्तृत्वमचेतनस्य दृष्टम् ।
अत एव भुजेर्भवेत्स कर्ता परभोक्तृत्वमतिप्रसङ्गदुष्टम् ॥६५
- ↑ “त्रिरोघेत्वनपेक्षं स्यादसति ह्यनुमानम्” इति जैमिनीयसूत्रम् ॥