पुरुषार्थ इहैष दुःखनाशः सकलस्यापि सुखस्य दुःखयुक्त्वात् ।
अतिहेयतया पुमर्थता नो विषवृत्तान्नवदित्यभेद्ययुक्तेः ॥६६
इति चेन्न सुखादिचित्रताया मनसो धर्मतयाऽऽत्मभेदकत्वम् ।
न कथञ्चन युज्यते पुनः सा घटयेत्ययुत मानसीयभेदम् ॥ ६७
चितियोगविशेष एव देहे कृतिमत्ताघटकोऽप्यचेतने स्यात् ।
तद्भावत एव कर्तृता स्यान्न वृणादेरिति कल्पनं वरीयः ॥६८
विषयोत्थसुखस्य दुःखयुक्त्त्वेऽप्यलयं ब्रह्मसुखं न दुःखयुक्तम् ।
पुरुषार्थतया तदेव गम्यं न पुनस्तुच्छकदुःखनाशमात्रम् ॥६९
इति युक्तिशतोपबृंहितार्थैर्वचनैः श्रुत्यवरोधमोविदः ।
यतिरात्ममतं प्रसाध्य शैवं परकुदर्शनदारुणैरजेपीत् ॥७०
विजितो यतिभूभूता स शैवः सह गर्वेण विसृज्य च स्वभाष्यम् ।
शरणं प्रतिपेदिवान् महर्षि हरदत्तप्रमुखः सहाऽऽत्मशिष्यैः ॥ ७१
यमिनामृषभेण नीलकण्ठं जितमाकर्ण्य मनीपिधुर्यवर्यम् ।
सहसोदयनादयः कवीन्द्राः परमद्वैतमुपञ्चकम्परे स्म ॥७२
विषयेषु वितत्य नैजभाष्याण्यथ सौराष्ट्रमुखेषु तत्र तत्र ।
बहुधा विबुधैः प्रशस्यमानो भगवान् द्वारवती पुरीं विवेश ॥७३
भुजयोर तितप्त शङ्ख चक्राकृतिलो हाहतसंभृतत्रगाङ्का: ।
शरदण्ड सहोदरां र्ध्वपुण्डास्तुलसीपर्णसनाथकर्णदेशा: ॥७४
शतशः समवेत्य पाञ्चरात्रास्त्वमृतं पञ्चभिदाविदां वदन्तः ।
मुनि शिष्यवरैरतिप्रगलभैर्मृगराजैरिव कुञ्जरा: प्रभग्नाः ॥७५
इति वैष्णवशैवशाक्त सरप्रमुखानात्मवशंवदान्विधाय ।
अतिवेलवचोझरी निरस्त प्रतिवाद्यज्जयिनी पुरीमयासीत् ॥७६
सपदि प्रतिनादितः पयोद स्वनशङ्काकुलगेड के किजालैः ।
शशभृन्मुकुटार्हणा मृदङ्गध्वनिरभ्रूयत तत्र मूर्छिताशः ॥७७
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६४
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
158
[पञ्चदशः
श्रीमच्छङ्करदिग्विजये