प्रशमिंस्तदसीति यत्रयीकैः कथितोऽर्थः स न युज्यते त्वदिष्टः ।
अभिदा तिमिरप्रकाशयोः किं घटते हन्त विरुद्धधर्मवत्वात् ॥ ४३
रवितत्प्रतिबिम्बयोरिवाभिटतामित्यपि तत्त्वतो न वाच्यम् ।
मुकुरे प्रतिबिम्बितस्य मिथ्यात्वगतेर्व्यामशिवादिदेशिकोत्त्या ॥ ४४
मुकुरस्थमुखस्य बिम्बवाद्भिदया पार्श्वगलोकलोकनेन ।
प्रतिबिम्बितमाननं मृषा स्यादिति भावत्कमतानुगोक्तिका च ॥ ४५
न च मायिकजीवनिष्ठमौढ्येश्वर सार्वज्ञविरुद्धधर्मबाधात् ।
उभयोरपि चित्स्वरूपताया अविशेषादभिदैव वास्तवीति ॥४६
न हि मानशतैः स्थितस्य बाधाडपरथा दत्तजलाञ्जलिभिदा स्यात् ।
विपरीतहयत्वगोत्वबाघाद्धयपश्वोर्निजरूपकैययुक्त्या ॥४७
यदि मानगतस्य हानमिष्टं न भवेत्तर्हि न चेश्वरोऽहमस्मि ।
इति मानगतस्य जीवसर्वेश्वरभेदस्य न हानमध्यभीष्टम् ॥४८
इति युक्तिशतैः स नीलकण्ठः कविरक्षोभयदद्वितीयपक्षम् ।
निगमान्तवच:प्रकाश्यमानं कलभः पद्मवनं यथा प्रफुल्लम् ॥४९
अथ नीलगलोक्तदोषजालो भगवानेवमवोचदस्तु कामम् ।
मृणु तत्त्वमसीति संप्रदाय श्रुतिवाक्यस्य परावरेऽभिसन्धिम् ॥५०
ननु वाच्यगता विरुद्धताधीरिह सोऽसावितिवद्विरोधहाने ।
अविरोधि तु वाच्यमाददैवयं पदयुग्मं स्फुटमाह को विरोधः ॥५१
यदिहोक्तमतिप्रसञ्जनं भो न भवेन्नो हि गवाश्वयोः प्रमाणम् ।
अभिदाघटकं तयोर्यतः स्यादुभयोर्लक्षणयाऽभिदानुभूतिः ॥ ५२
ननु मौसमस्त वित्त्वधर्मान्वितजीवेश्वर रूपतोऽतिरिक्तम् ।
उभयो: परिनिष्ठितं स्वरूपं बत नास्त्येव यतोऽत्र लक्षणा स्यात् ॥ ५३
इति चेन्न समीक्ष्यमाणजीवेश्वररूपस्य च कल्पितत्वयुक्त्या ।
तदधिष्ठितसत्यवस्तुनोऽद्धा नियमेनैव सदाऽभ्युपेयतायाः ॥ ५४
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६२
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
156
[पञ्चदशः
श्रीमच्छङ्करदिग्विजये