सामग्री पर जाएँ

पृष्ठम्:शङ्करदिग्विजयः.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
122
[द्वादशः
श्रीमच्छङ्करदिग्विजये

भ्रमापनोदाय भिदावदानामद्वैतमुद्रामिह दर्शयन्तौं ।
आराध्य देवौ हरिशङ्करौ स द्वयर्थाभिरित्यर्चयति स्म वाग्भिः ॥ ८

वन्द्यं महासोमकलाविलासं गामादरेणाऽऽकलयन्ननादिम् ।
मैनं महः किंचन दिव्यमङ्गीकुर्वन् विभुर्पे कुशलानि कुर्यात् ॥९

यो मन्दरागं दधदादितेयान सुधाभुजः स्माऽऽतनुते विषादी ।
स्वापद्रिलोलोचितचारुमृर्ते कृपामपारां स भवान् विधत्ताम् ॥१०

उल्लासयन्यो महिमानमुच्चैः स्फुरद्वराहीशकलेवरोऽभूत् ।
तस्मै विदध्मः करयोरजस्रं सायन्तनाम्भोरुहसामरस्यम् ॥११

समावद्दन् केसरितां वरां यः सुरद्विषत्कुञ्जरमाजघान ।
प्रहलादमुलासितमादधानं पञ्चाननं तं प्रणुमः पुराणम् ॥१२

उदैत्त बल्याहरणाभिलाषो यो वामनं हार्यजिनं वसानः ।
तपांसि कान्तारहितो व्यतानीदाव्योऽवतादाश्रमिणामयं नः ॥१३

येनाधिकोद्यत्तरवारिणाऽऽशु जितोऽर्जुनः संङ्गररङ्गभूमौ ।
नक्षत्रनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथा: ॥१४

विलासिनाडलीकभवेन धाम्ना कामं द्विषन्तं स 'दशास्यमस्यन् ।
देवो धरापत्यकुचीष्मसाक्षी देयादमन्दात्मसुखानुभूतिम् ॥ १५

उत्तालकेतुः स्थिरधर्ममूर्तिलाइलस्वी करणो यकण्ठः ।
स रोहिणीशा निशचुम्ब्यमान निजोत्तमाङ्गोऽवतु कोऽपि भूमा ॥ १६

विनायके नाऽऽकलिताहितापं निषेदुषोत्सङ्गभुवि महृष्यन् ।
यः पूतनामोहकचित्तवृत्तिरव्यादसौ कोऽपि कलापभूषः ॥१७

पाठीनकेतोर्जयिने प्रतीतसर्वज्ञभावाय दयैकसीने ।
प्रायः क्रतुद्वेषकृतादराय बोधकथाम्ने स्पृहयामि भूने ॥१८
मेनाया इदम्, मीनस्येदम् ।
"पक्षे, अविषादीति पदच्छेदः ।

  • के इति छेदः । चारिशब्दो बालकवाची । "दशेन्द्रियद्वारकं कामम् ।

"पूतनामा चासावूक चित्तवृत्तिश्च ।
क्रियाविशेषणम् ।