पृष्ठम्:शङ्करदिग्विजयः.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्गः१२] 121 हस्तामलकादीनां शिष्यत्वेन ग्रहणम् एवं विशिष्टनुतिभिर्नृहरौ प्रशान्ते स्वं भावमेत्य मुनिरेष बभूव शान्तः । स्वप्नानुभूतमिव शान्तमनाः स्मरंस्तमात्मानमात्मगुरवे प्रणतिं चकार ॥ ७४ चारित्र्यमेतत्प्रयतस्त्रिसन्ध्यं भक्त्या पठेद्यः शृणुयादवन्ध्यम् । तीर्त्त्वाऽपमृत्युं प्रतिपद्य भक्तिं स भुक्तभोगः समुपैति मुक्तिम् ॥ ७५ इति श्रीमाधवीये तदुग्रभैरवनिर्जयः । संक्षेपशङ्करजये सर्ग एकादशोऽभवत् ॥ ११ ॥ आदितः श्लोकाः 1223 १ २

अथ द्वादशः सर्गः ॥ १२ ॥ हस्तामलकादीनां शिष्यत्वेन ग्रहणम् ॥ अथैकदाऽसौ यतिसार्वभौमस्तीर्थानि सर्वाणि चरन सतीर्थ्यैः । घोरात् कलेर्गोपितधर्ममागाद्गोकर्णमभ्यर्णचलार्णवौघम् ॥ १ विरिञ्चिनाम्भोरुहनाभवन्द्यं प्रपञ्चनाट्याद्भुतसूत्रधारम् । तुष्टाव वामार्धवधूटिमस्तदुष्टावलेपं प्रणमन् महेशम् ॥ २ वपुः स्मरामि क्वचन स्मरारेर्बलाहकाद्वैतवदावदश्रि । सौदामिनीसाधितसम्पदायसमर्थनादेशिकमन्यतश्च ॥ ३ वामाङ्गसीमाङ्कुरदंशुतृण्याचश्चन्मृगाञ्चत्तरदक्षपाणि । सव्यान्यशोभाकलमाग्रभक्षसाकांक्षकीरान्यकरं महोऽस्मि ॥ ४ महीध्रकन्यागलसंगतोऽपि माङ्गल्यतन्तुः किल हालहालम् । यत्कण्ठदेशेऽकृत कुण्ठशक्तिमैक्यानुभावादहमस्मि भूमा ॥ ५ गुणत्त्रयातीतविभाव्यमित्थं गोकर्णनाथं वचसाऽर्चयित्वा । तिस्रः स रात्रीस्त्रिजगत्पवित्रे क्षेत्रे मुदैष क्षिपति स्म कालम् ॥ ६ वैकुण्ठकैलासविवर्तभूतं हरन्नताघं हरिशङ्कराख्यम् । दिव्यस्थलं देशिकसार्वभौमस्तीर्थप्रवासी नचिरादयासीत् ॥ ७