पृष्ठम्:शङ्करदिग्विजयः.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १२]
123
हस्तामलंकादीनां शिष्यत्वेन ग्रहणम्

व्यतीत्य चेतोविषयं जनानां विद्योतमानाय तमोनिहन्त्रे ।
भूत्रे सदावासकृताशयाय भूयांसि मे सन्तुतमां नमांसि ॥१९

कारयोः सपर्या वाचाऽतिमोचारसयेति तन्वन् ।
मुनिमवीरो मुदितात्मकामो मृका स्त्रकायाः सदनं प्रतस्थे ॥२०

अङ्के निधाय व्यसुमात्मजातं महाकुलौ हन्त मुहुः प्ररुद्य ।
तदेक पुत्रौ द्विजदम्पतीं स दृष्ट्वा दयाधीनतया शुशोच ॥२१

अपारमञ्च त्यथ शोकम स्मिन्नभूयतो च्चैरशरीरवावा ।
जायेत संरक्षितुमक्षमस्य जनस्य दुःखाय परं दयेति ॥२२

आकर्ण्य वाणीमशरीरिणीं तामसाविति व्याहरति स्म विज्ञः ।
जगत्तयी रक्षणदक्षिणस्य सत्यं तवैकस्य तु शोभते सा ॥२३

इतीरयत्येव यतौ द्विजातेः सुतः सुखं सुप्त इवोद तिष्ठत् ।
समीपगैः सर्वजनीनमस्य चारित्र्यमालोक्य विसिष्मिये च ॥२४

रम्योपशल्यं कृतमालसालरसालहिंतालतमालशालैः ।
सिद्धिस्थलं साधकसम्पदां तन्मूकाम्बिकायाः सदनं जगाहे ॥२५

उच्चावचानन्दजबाष्पमुच्चैरुद्गीर्णरोमाञ्चमुदारभक्तिः ।
अम्बामिहापार कृपावलम्वां संभावयन्नस्तुत निस्तुलं सः ॥२६

पारेपराध पदपद्मभासु षष्ट्युत्तरं ते त्रिशतं तु भासः ।
आविश्य वहचर्कसुधामरीचीनालोकवन्त्यादधते जगन्ति ॥२७

अन्तश्चतुःषष्टधुपचार भेदैरन्तेव सत्काण्डपटपदानैः ।
आवहनायैस्तव देवि नित्यमाराधनामादधते महान्तः ॥२८

अम्बोपचारेष्वधिसिन्धुषष्टि शुद्धाज्ञयोः शुद्धदमेकमेकम् ।
सहस्रपत्रे द्वितये च साधु तन्वन्ति धन्यास्तव तोषहेतोः ॥२९

आराधनं ते बहिरेव केचिदन्तर्व हिचैकत मेऽन्तरेव ।
अन्ये परे त्वम्ब कदापि कुयुनैव त्वदैक्यानुभवैकनिष्ठाः ॥३०
"वषाकपायी श्रीगौर्योः' इति निघण्टुः ।