कर्पूरेण ऋणीकृतं मृगमदेनाधीत्य सम्पादितं
मल्लीभिश्विर सेवनादुपगतं क्रीतं तु काश्मीरजैः ।
प्राप्तं चौरतया पटीरतरुणा यत्सौरभं तद्विरा-
मक्षय्यं महि तस्य तस्य महिमा धन्योऽयमन्यादृशः ॥९२
अप्सां द्रप्सं सुलिप्सं चिरतरमचरं क्षीरमद्राक्ष मिक्षु
साक्षाद्राक्षामचक्षं मधुरसमधयं प्रागविन्दं परन्दम् ।
मोचामाचाममन्यो मधुरिमगिरमा शङ्कराचार्यवाचा-
माचान्तो हन्त किं तैरलमपि सुधासारसीसारसीना ॥९३
संतप्तानां भवदवशुभिः स्फारकर्पूरदृष्टिः
मुक्तायष्टिः प्रकृतिविमला मोक्षलक्ष्मीमृगाक्ष्याः ।
अद्वैतात्मानवधिकसुवासारकासारहंसी
बुद्धेः शुद्धयै भवतु भगवत्पाइदिव्योक्तिधारा ॥९४
आम्नायान्तालवला विमलतरसुरेशा दिसूक्ताम्बुसिक्ता
कैवल्याशापलाशा विबुधजनपन:सालजालाधिरूढा ।
तत्वज्ञानप्रसूना स्फुरदमृतफला सेवनीया द्विजैर्या
सा मे सोमावतंसावतरगुरुवचोवल्लिरस्तु प्रशस्त्यै ॥९५
नृत्यद्भूतेशवल्गन्मुकुट तटरटत्स्वर्धुनीस्पर्धिनीभि-
र्वाग्भिन्निभिन्नकूलोच्चलदमृतसर: सारिणीधोरणीभिः ।
उद्वेलद्द्वैतवादिस्वमतपरिणताहं क्रियाहुक्रियाभि-
भांति श्रीशङ्करायः सततमुपनिषदाहिनी गाहिनीभिः ॥९६
साहङ्कारसुरासुरावलिकराकृष्टभ्रमन्मन्दर-
क्षुब्धक्षीरपयोब्धिवीचिसचिवैः सूक्तैः सुधावर्षणात् ।
जङ्घा लैर्भवदानपावक शिखाजालैर्जटालात्मनां
जन्तूनां जलदः कथं स्तुतिगिरां वैदेशिको देशिकः ॥९७
कलशाब्धिकचाक चिक्षमं क्षणदाधीशगदागदिप्रियम् ।
रजताद्रिभुजाभुजिक्रियं चतुरं तस्य यशः स्म राजते ॥९८
पृष्ठम्:शङ्करदिग्विजयः.djvu/४५
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ४]
39
कौमारचरितवर्णनम्