एतत् पृष्ठम् परिष्कृतम् अस्ति
११
मालये 'गङ्गावताराद्' [१] आविर्भवति । तत इयम् 'अलकनन्दया' [२]समानप्रभवया समम् ऐक्यं प्राप्नोति ।
अथ सेवालिपर्वतस्य [३] सानौ लुठन्ती हरिद्वारम् [४] अतीत्योदारगम्भीरेण स्रोतसा वहति ।
क्वचिद् अनया दक्षिणपूर्वगामिन्या वामतो [५] 'रामगङ्गा' दक्षिणतः [६] 'काली' च सङ्गतं प्राप्नुतः ।
अस्याः पोषकनदीषु [७] महत्तमा 'यमुना' [८] गङ्गावातारसमीपाद् 'यमुनावताराद्' [९] आविर्भवति । सा ‘चर्मण्वतीं' [१०] 'सिन्धुनदीं' [११] 'वेत्रावतीं' Betwa River. ‘कर्णावतीं [१२] च दक्षिणत आदाय प्रयागे [१३] गङ्गया सह मिलति । यमुनोपनदीषु प्रथमां 'पर्णशा' [१४] , द्वितीयां 'पारा' [१५], तृतीयां 'दशार्णा' [१६] च पुष्णन्ति ।
- ↑ From Gangotri.
- ↑ अलकनन्दा = River Alakananda.
- ↑ सेवालिपर्वतः = Sivalik range. सेवालिशब्दः सुवास्त्वादि (४-२-७७ पाणि.) गणे पठितः.
- ↑ Hardwar.
- ↑ On the left.
- ↑ On the right.
- ↑ Among the tributaries.
- ↑ Jumna River.
- ↑ From Jumnotri.
- ↑ Chambal River.
- ↑ Sindh River.
- ↑ Ken River.
- ↑ At Allahabad.
- ↑ Banas River.
- ↑ Parbati River.
- ↑ Dhasan River.