पृष्ठम्:भारतानुवर्णनम्.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०

इति पुरातनं नामधेयं केऽपि [१] सम्भावयन्ति [२] । आर्याणां भारतप्रवेशात् प्राचीनम् अभिजनम् [३]अस्य तटं वदन्ति । अत एष सिन्धूनां हिन्दुशब्दितानां [४] कोशो [५] भवति । तेन 'सिन्धुकोश' [६] इति नामधेयम् अस्य पर Others. ऊहन्ते ।

 अस्ति हिमालयाद् उत्तरतोऽतिरमणीयसन्निवेश ऊर्जितानुभावो गिरिः ‘कैलासो' [७]नाम, यस्माद् दक्षिणतः पावनं सरोवरम् उल्लसति 'मानसं ' [८] नाम । कैलासं मानसं च देवभोग्यं पुराणानि कथयन्ति ॥

नद्यः.

गङ्गा -- भारते या नद्यः प्रवहन्ति, तासु अभ्यर्हिततमा [९] गङ्गा भवति । एषा भागीरथीनाम्ना [१०] हि-


  1. Some.
  2. Believe.
  3. Mother-land.
  4. Named as Hindu.
  5. Store.
  6. The name Hindu-kush is believed to be & corrupt form of सिन्धुकोश.
  7. Kiunlun range.
  8. Lake Manas-sarovar.
  9. Greatly respectable.
  10. By the name of भागीरथी.