अर्थावबोधेऽपि समे रसज्ञैरन्विष्यते सत्कविसूक्तिरेव ।
अपत्यलाभेऽपि समे विदग्धा रूपोत्तरामेव हि रोचयन्ते
॥ २३ ॥
व्यामोहयन्ती विविधैर्वचोभिर्व्यावर्त्तयन्त्यन्यकलासु दृष्टिम् ।
कालं महान्तं क्षणवन्नयन्ती कान्तेव दक्षा कविता धिनोति
॥ २४ ॥
चिन्तासु संसर्गविशेषलाभे सन्दर्भणे चाथ पदैः पदानाम् ।
[१]अर्थावबोधे च भवन् कवीनामानन्दभूमा वचसामसीमा
॥ २५ ॥
अनायतप्राणमसंयताक्षमब्रह्मचर्यानशनादिखेदम् ।
चित्तं महेशे निभृतं विधातुं सिद्धः कवीनां कवितैव योगः
॥ २६ ॥
तिर्यङ्मनुष्यव्यतिरेकहेतुर्देव्या गिरामेव कटाक्षपातः ।
प्रज्ञाविशेषास्तु परे जनानां प्रायो दिशन्ति श्वमृगालसाम्यम्
॥ २७॥
न कालभेदाद्रसवर्णभेदो न [२]जामिता वा न [३] ॠजीषभावः ।
सारस्वतं नाम फलं तदेतत् सदैकरूपं कृतिनो लभन्ते
॥ २८ ॥
बाल्यं विदुः प्राकृतभाषितानि श्रुतिस्मृती वृद्धदशां वदन्ति ।
साहित्यमेकन्तु गिरां सवित्र्यास्तारुण्यमुद्गाढमुशन्त्यभिज्ञाः
॥ २९ ॥
क्वार्थाः क्व शब्दाः क्व रसाः क्व भावाः क्व व्यङ्ग्यभेदाः क्व च वाक्यरीतिः
कियत्सु दृष्टिः कविना न देया किमस्ति राज्ञामियतीह चिन्ता
॥ ३० ॥
आवर्णशक्तिग्रहमापवर्गं दुःखैकरूपा विरचय्य विद्याः ।
विश्रान्तिहेतोः कवितां जनानां वेधाः सदानन्दमयीं किमाधात्
॥ ३१ ॥
सिद्धं पदं सिद्धतरस्तदर्थः साध्या पदानां परमानुपूर्वीं |
तन्मात्रसारे कवितापदेऽस्मिन् कियद्विधात्रा कृतमुच्चनीचम्
॥ ३२ ॥
तान्येव शास्त्राणि त एव शब्दास्त एव चार्था गुरवस्त एव ।
इयान् विशेषः कवितापथेऽस्मिन् देव्या गिरां दृक्परिवर्तभेदः
॥ ३३ ॥
पदानि भव्यान्यपि काव्यरीतिमस्थानदत्तानि न शोभयन्ते ।
नासाग्रलग्नेन भवन्मुखश्रीस्ताटङ्कबिम्बेन [४]किमङ्गनायाः
॥ ३४ ॥