अस्मिन् महत्यस्तमितान्यवेद्ये विसृत्वरे वीचितरङ्गरीत्या ।
काव्यध्वनौ जाग्रति देहभाजां कर्णं विशेयुः कथमन्यशब्दाः
॥ १० ॥
कीर्णानि घण्टापथ एव हन्त शब्दार्थरत्नानि गिरां सवित्र्या ।
अत्यादरादामृशतां कवीनां दृग्गोचरं कस्यचिदेव यान्ति
॥ ११ ॥
प्रायस्तिरोभूतमहाप्रकाशाः पाषाणखण्डेष्विव चन्द्रकान्ताः ।
शब्देषु शब्दा मिलिताश्चरन्ति भाग्योत्तरा एव तु जानते तान्
॥ १२ ॥
यानेव शब्दान् वयमालपामो यानेव चार्थान्वयमुल्लिखामः ।
तैरेव विन्यासविशेषभव्यैः संमोहयन्ते कवयो जगन्ति
॥ १३ ॥
गायन्ति वीणा अपि वेणवोऽपि जानन्ति बालाः पशवोऽपि चेदम् ।
काव्यानि कर्तुं च परीक्षितुं च द्वित्रा भवेयुर्न तु वा भवेयुः
॥ १४ ॥
सव्यं वपुः शब्दमयं पुरारेरर्थात्मकं दक्षिणमामनन्ति ।
अङ्गं जगन्मङ्गलमैश्वरं तदर्हन्ति काव्यं कथमल्पपुण्याः
॥ १५ ॥
स्तोतुं प्रवृत्ता श्रुतिरीश्वरं हि न शाब्दिकं प्राह न तार्किकं वा ।
ब्रूते तु तावत् कविरित्यभीक्ष्णं काष्ठा परा सा कविता ततो नः
॥ १६ ॥
कर्णं गतं शुप्यति कर्ण एव सङ्गीतकं सैकतवारिरीत्या |
आनन्दयत्यन्तरनुप्रविश्य सूक्तिः कवेरेव सुधासगन्धा
॥ १७ ॥
पश्येयमेकस्य कवेः कृतिं चेत् सारस्वतं कोशमवैमि रिक्तम् ।
अन्तः प्रतिश्याय मवेक्षितश्चेत् कोणे प्रविष्ठा कविकोटिरेषा
॥ १८ ॥
वक्रोक्तयो यत्र विभूषणानि वाक्यार्थबोधः परमप्रकर्षः ।
अर्थेषु बोध्येप्वभिधैव दोषः सा काचिदन्या सरणिः कवीनाम्
।। १९ ।।
सदर्थमात्रग्रहणात् प्रतीता सर्वज्ञता सापि शशाङ्कमौले: ।
प्राप्ता विकासं प्रतिभा कवीनां व्याप्नोति यद्वेत्ति न तच्छिवोऽपि
॥ २० ॥
उल्लङ्घ्य तन्त्रान्तरसम्प्रदायानुत्प्रेक्षमाणा जगदन्यदन्यत् ।
कस्माद् बिभीमः कवयो भवामः काव्यज्ञदण्डाद् बिभिमस्तु कामम्
॥ २१ ॥
तन्त्रान्तरेषु प्रतिपाद्यमानास्ते ते पदार्था ननु ते त एव ।
निर्बेदभीशोकजुगुप्सितान्यप्यायान्ति साहित्यपथे रसत्वम्
॥ २९ ॥