॥ श्रीः॥
महाकविश्रीनीलकण्ठदीक्षितप्रणीतः
शिवलीलार्णवः ।
प्रथमः सर्गः
पूतं स्वतः पूततरं ततो यद् गाङ्गं पयः शङ्करमौलिसङ्गात् ।
तत् पातु मातुः प्रणयापराधपादाहतैः पूततमं ततो नः
॥ १ ॥
अशक्यमङ्गान्तरवद्विभक्तुमणुप्रमाणं करणं यदन्तः |
सामान्यभूतं शिवयोस्तदेकं सानुग्रहं स्यान्मयि गर्भदासे
॥२ ॥
अन्विष्य खिन्नं निगमानशेषानमी न मीनं प्रथमं स्मरामः ।
अन्विष्यमाणं निगमैरशेषैरम्ब ! स्तुमस्ते वयमक्षिमीनम्
॥ ३ ॥
स्तन्येन [१]कश्चित् कवयाम्बभूव ताम्बूलसारेण [२]परो जनन्याः ।
अहं ततोऽप्युन्नतिमाप्तुकामः सेवे ततोऽप्युन्नतमक्षिकोणम्
॥ ४ ॥
अर्धे तनोरद्रिसुतामयोऽस्मीत्यहंयुना किं फलमादियूना ।
गीर्वाणयोगीन्द्रमुपास्महे तं सर्वात्मना शैलसुतात्मको यः
॥ ५ ॥
कालेन शम्भुः किल तावतापि कलाश्चतुष्षष्टिमिताः प्रणिन्ये ।
द्वासप्ततिं प्राप्य समाः प्रबन्धाञ्छतं व्यधादप्पयदीक्षितेन्द्रः
॥ ६ ॥
[३]अनाहतोद्भूतमपास्तभेदमाद्यं शिवस्यौपयिकं विधातुः ।
नादाभिधं पारगमध्वनां तदनुत्तरं ज्योतिरनुस्मरामः
॥ ७॥
साहित्यविद्याजयघण्टयैव संवेदयन्ते कवयो यशांसि ।
यथा यथास्यां [४]ध्वनिरुज्जहीते तथा तथा सार्हति मूल्यभेदान्.॥८ ॥
यावत् कवेर्मार्दवमुक्तिबन्धे यावद् धियः श्रोतरि कोमलत्वम् ।
तावद् ध्वनौ तद्व्यतिभेदमूले तारत्वमालंकृतिका बदन्ति
॥ ९ ॥