एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
४६ ईशानशिवगुरुदेवपद्धतौ [सामान्यपादः
चरणाग्रयुगं त्वथोपरिष्टादधिरोप्योरुयुगस्य मूलदेशे । उपविश्य पुरेव पद्मसंज्ञं कथितं तद्विपरीततस्तु भद्रम् ॥ १६ ॥ अधिरोप्य तु दक्षिणाङ्घ्रिमूरावथ सव्ये चरणे तु दक्षिणोरुम् । अधिरोप्य पुरेव सूपविष्टो यदि योगासनमिष्टदं तदाहुः ॥ ६७ ।। वृषणे तु निगृह्य वामजङ्घापदगुल्फे त्वधिरूढसस्फिगूरुः । उपरिस्थितदक्षिणोरुजानुः खलु योगी स तु गोमुखासनस्थः ॥ ६८ ॥ विनिवेशितजिह्मदक्षिणाघ्रिः फलकादावुपविश्य वामपादम् ।
अवनौ विनिधाय चोर्ध्वजङ्घं ननु तत् स्वस्तिकमर्धपूर्वमाहुः ॥१९॥ उपविश्य तथासने तु पादौ भुवि संस्थाप्य मिथो निबद्धजङ्घौ ।
समतोरणजानुरूढहस्तो यदि वीरासनयोगपट्टनद्धः ॥ ७० ॥
स्थित एवं पदद्वयेन भूमौ फलकाद्यं च विना स चेन्निविष्टः ।
समतोरणवत् स्थितोरुजङ्घो भवतीहोत्पुटिकं च कुक्कुटं तत् ॥ १॥ मरुतां विजये तथेन्द्रियाणां भवमुक्तौ च सुधारणे समाधौ। कमलासनमिष्टमत्र भद्रं हितमुक्तं खलु नित्यपौष्टिकादौ ॥ ७२ ॥ कथितं खलु शान्तिकेषु कर्मस्वखिलं स्वस्तिकमेव चाभिषेके । अपि शान्तिकजप्यहोमपूजास्वथवा स्वस्तिकमर्घपूर्वमिष्टम् ॥ ७३ ॥
सकलीकरणे निजैक्यदेवेष्वभिजप्येषु समाधिहंसयोगे ।
परमार्थनिरूपणेषु चेष्टं खलु योगासनमग्रतो गुरुश्चेत् ॥ ७ ॥ पृतनाविजये च तन्निरोधेष्वपि संस्तम्भनभूतनिग्रहादौ । अपि संवननेषु कर्षणे वा ननु वीरासनमुक्तमाशुसिद्धयै ॥ ७५ ॥
कथितं खलु कुक्कुटं रिपूणां रूचिविद्वेषणचाटनभ्रमेषु ।
अथ मारणकेषु पार्ष्णिसंज्ञं विदितं वासनमर्घकुक्कुटं तत् ।। ७६ ॥ विजये मरुतां स्वदोषशान्त्यै पृतनास्तम्भविधौ च गोमुखं वा । प्रमदाजनकर्षणेषु चाब्जं विजितं यद् विदित गुरूपदिष्टम् ॥ ७७ ॥
1. 'कु' ग. पाठः. २. “अरुणां वि' ख. पाठ:. ३. 'स' ग. पारः ४. 'रजिवि म. पाठः. ५. 'य' ग. पाठ:. . 'नरक' ब. पाठः,