एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
आसनाधिकारः] पूर्वार्धे पञ्चगः पटलः ।
द्विषतोऽष्टमराशिनैधनर्क्षेष्वथ वैनाशिकमार्गसंख्यमानि । कुजमन्ददिनोदयादियोगैरभिचर्यासु भवन्ति सिद्भिदानि ॥ ५ ॥
कुजशुक्रबुधेन्दुसूर्यसौम्या भृगुजारौ गुरुमन्दसौरिजीवाः ।
क्रमशोऽश्वयुजादिभाङ्घ्रिपास्ते खलु मेषादिकराशिपाश्च ते स्युः ।। ५५ ॥ कुजभास्करजीवमन्दशुक्रा बुधशुक्रार्कजसौम्यचन्द्रभौमाः ।
घिषणोऽप्यधिपास्त्वजादि सिंहाद्यपि चापादिषु राशिषु त्रिधैयम् ॥ ५६ ।।
गुरुमन्दादिनेऽथ जीवमन्दांशकनक्षत्रतदंशके सरिक्ते ।
स्थविराख्यमुदाहरन्ति शस्तं रिपुरोगार्णविनाशनप्रयोगे ।। ५७ ।। दिवसं प्रविभज्य चाष्टघान्त्यप्रथमौ मोक्ष्यति तद्दिनप्रहांशौ।
प्रहरार्धभुजौ ग्रहाः षडन्ये क्रमशोंऽशो गुलिकोऽत्र यः शनेः स्यात् ॥५८ ॥ जननर्क्षसंकतोंऽशकादशीतेरधिको यस्य तु योऽष्टमोंऽश उक्तः । . स विनाशकसंज्ञको विनाशी निजभात् सप्तमभं तु नैधनाख्यम् ॥ ५९॥
निजभाद्रवितोदधिग्रसंख्याः शुभताराः शुभकर्मणां प्रशस्ताः ।
शुभकर्म करोतु रागधामा सधनैकादशसंख्यया स्वराशेः ॥ ६ ॥
दिनाधिकारः। ।
न च यानगतो न वाहनस्थो न च यन्त्रस्थलगो न वाशुचिः सन् । विषयेष्वभिषक्तमानसो वा जपहोमादिकृतं फलं लभेत ॥ ६१ ॥ अतिनीचमपीह नोच्छ्रितं वा न च शुद्धेतरचर्मकम्बलाढ्य म् ।
अशुभाङ्घ्रिपजं च भिन्नदग्धं नृजलोच्छिष्टमलाक्तमासनं स्यात् ॥ ६२ ॥
कुशदर्भकृताः शुभाश्च वृस्यः फलकाः पुण्यतरूद्भवा विशालाः । सकषायतरक्षुचर्म चैणं त्वपि शस्तानि सुलोहदन्तजानि ॥ १३ ॥
सितशुद्धीवधीतवाससा + समवास्तीर्णविशङ्कटासनानि । प्रभवन्ति हि सौम्यकर्मसिध्ध्यै विषवृक्षादिकृतान्यसौम्यकृत्ये ॥ ६४ ॥
उपविश्य तु विष्टरेऽथ जान्वोर्विवरेऽङ्गुष्ठनिपीडनं विधाय । ऋजुमध्यगलेक्षणाग्रकायो भवति स्वस्तिकमासनं निविष्टम् ।। ६५॥
१. 'बा' ग. पाठः.