दूतं वित्तैः पूरयित्वा सरोगाधं च राक्षसैः ।
चक्रे जयपुरं कोट्टं त्रिविष्टपसमं नृपः ॥ ५०६ ॥
बुद्धत्रयं महाकारं विहारं च विधाय सः।
नगरान्तर्जयादेवीं पुण्यकर्मा स निर्ममे ॥ ५०७ ॥
तत्पुरे चतुरात्मा च शेषशायी च केशवः।
विष्णुलोकस्थितिं त्यक्त्वा ध्रुवं बध्नाति संनिधिम् ॥५०८॥
अन्यत्कर्मान्तरं किंचित्कारयित्वा स राक्षसान् ।
प्यधात्कारुभिरेवाम्भ इति शंसन्ति केचन ॥ ५०९. ॥
स हि स्वप्ने जलान्तर्मे कुरु द्वारवतीमिति ।
उक्तः कंसारिणा चक्रे विनिर्माणं तथाविधम् ॥ ५१० ॥
श्रीद्वारवत्यधिष्ठानं बाह्यं कोट्टं तथाह्यसौ ।
अभ्यन्तरं जयपुरं ब्रुतेद्याप्यखिलो जनः ॥ ५११ ॥
मन्त्रि पन्चमहाशब्दभाजनं जगतीभुजः ।
तस्मिण्जयपुरे कोट्टे जयदत्तो व्यधान्मठम् ॥ ५१२॥
राजक्षत्तुः प्रमोदस्य जामाता मथुरापतेः ।
आचाभिधो व्यरचयच्छुचिराचेश्वरं हरम् ॥ ५१३ ॥
पुनः संभृर्सतसामग्यौ दिग्जयाय विनिर्ययौ ।
बलैर्जलधिवेलाद्रीन्द्राघयन्नलघुद्विपैः ॥ ५१४ ॥
संप्रविष्टापि पूर्वाब्धिमविच्छिन्ना हिमाचले ।
भगीरथस्य गङ्केव रेजे तस्यानुगा चमूः ॥ ५१५ ॥
सार्ध प्रचण्डैश्चण्डालैरटन्तः.कटकाद्वहिः।
तस्यासन्यामिका रात्रौ सुम्मुनिप्रमुखा नृपाः ॥ ५१६ ॥
नामान्यद्विनयादित्य इति प्रख्यापयन्नृपः।
पुर्वाशां विनयादित्यपुरेणालंकृतां व्यधात् ॥ ५१७ ॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१४८
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
चतुर्थस्तरङ्ग:।