अत्युत्सेकेन सहसा साहसाध्यवसायिनाम् ।
श्रीरारोहति संदेहं महतामपि भूभृताम् ॥ ५१८ ॥
भीमसेनाभिधानस्य स दुर्गे पूर्वदिक्पतेः ।
निःशब्दो व्रतिभि: सार्धं व्रतिलिङ्गी विवेश यत् ॥ ५१९ ॥
तं रन्ध्रान्वेषिणं तत्र परिज्ञाय चिरस्थितः।
भ्राता जज्जस्य सिद्धाख्यो गत्वा राज्ञे न्यवेदयत् ॥ ५२० ॥
भूपतिं भीमसेनोथ राजाकस्माद्वबन्ध तम् ।
नहुषाजगरो भीममिव भीमपराक्रमम् ॥ ५२१ ॥
तस्मिन्वीरे तथा बद्धे धुर्ये पुरुषकारिणाम् ।
पौरुषद्वेषिणा जाने दैवेनोन्नमितं शिरः ॥ ५२२ ॥
जयापीडस्त्वसंमूढो व्यसनेप्यतिदारुणे ।
तांस्तान्संचिन्तयन्नासीदुपायानुदयोन्मुखः ॥ ५२३ ॥
अत्रान्तरे नरपतेः पौराणामतिदुस्तरा ।
लुतामयकृता व्यापदुदपद्यत मण्डले ॥ ५२४ ॥
आमयः स्पर्शसंचारी तत्र व्यापादकश्चः सः ।
देशदोषादतो जन्तुर्लूताव्याप्तो विवर्ज्यते ॥ ५२५ ॥
तदाकण्ये जयापीडो जातोपायप्रयुक्तधीः ।
स्वभृत्यनोपयुक्तानि द्रव्याण्यानीतवान्रहः ॥ ५२६ ॥
तैः पित्तोद्रेचकैर्भुक्तैर्ज्वलत्पित्तोवहज्ज्वरम् ।
वज्रवृक्षपयश्चाङ्गे क्षिप्त्वा सपिटकोभवत् ॥ ५२७ ॥
तं लूताव्याप्तमाकर्ण्य विपक्षो रक्षिणां मुखात् ।
विपत्स्यते ध्रुवमिति ध्यात्वा देशाद्वहिर्व्यधात् ॥ ५२८ ॥
एवं स्वमतिमाहात्म्यात्संतीर्णों विपदर्णवात् ।
व्याप्तव्योमाग्रहीद्दुर्गं यशश्च परिपन्थिनः ॥ ५२९ ॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१४९
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिनणि