पुंसस्तस्य स राज्ञाथ पृष्टः प्रकृतिनामनी ।
वदनप्रत्यभिज्ञैव ममास्तीत्यभ्यभाषत ॥ ५५ ॥
प्रातस्तवेप्सितावाप्ति करिष्यामीति भूभुजा ।
प्रतिज्ञाय कथंचित्स स्वपार्श्वे कारितोशनम् ॥ ५६ ॥
लवणोत्सौकसां दूताहूतानां स विशां ततः ।
स्थितमन्तर्द्विजोन्येद्युस्तं राज्ञेदर्शयन्नरम् ॥ ५७ ॥
पृष्टः स राज्ञा विप्रेण यथैवोक्तं तथैव तत् ।
सर्वमूचे वाक्प्रतिष्ठं व्यवहारमुदीरयन् ॥ ५८ ॥
खत्यवाक्पारतन्त्र्यस्य वस्तुवृत्तस्य चान्तरम् ।
अलक्षयन्तः प्रैक्षन्त दोलाकुलधियो धराम् ॥ ५९ ॥
धर्मासनस्थो राजाथ रूपकाणामभाषत ।
तमष्टानवतेः पात्रं विप्रमन्यं द्वयस्य तु ॥ ६० ॥
अनुयोक्तॄञ्जगादापि दुःसंचिन्त्या महात्मनः ।
धर्मस्याधर्ममुद्धृतं निहन्तुं धावतो गतिः ॥ ६९ ॥
सायं हुताशं प्रविशन्नम्मयं चेन्दुमण्डलम् ।
स्वतेजसा संविभजन्प्रदीपैर्ज्योत्स्नयाप्यसौ ॥ ६२ ॥
तदुत्थाय यथा भानुर्निहन्ति ध्वान्तमुद्धतम् ।
अनन्यकर्मा धर्मोयं तथाधर्मं व्यपोहति ॥ ६३ ॥
युग्मम् ॥
दुःसंलक्ष्यस्तु धर्मोसावधर्मं बाधतेञ्जसा ।
तिष्ठन्नित्यमधिष्ठाय दाह्यं काष्टामिवानलः ॥ ६४ ॥
ददाति यद्भवान्दत्तां तदिव्याद्युक्तमुज्झतः ।
तुभ्यं रोचत इत्यादि वचोस्य निसृतं तदा ॥ ६५ ॥
रुचितास्य बभूवाष्टानवतिर्लोभिनोस्य ताम् ।
नादादस्मायरुचितं रूपकाणां द्वयं ददत् ॥ ६६ ॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२१४
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०५
षष्ठतरङ्गः