प्रथमस्तरन्गः । १३
लोकालोकद्रिपार्श्वस्थास्तामस्य क्रुत्तिका वयम् । बोधिसत्वैकशरणाः कान्स्यस्तपसः क्षयम् ॥ १२७ ॥ लोके भगवतो लोकनाथादारभ्य केचन । ् ये जन्तवो गतक्लेशा बोधिसत्वानवेहि तान् ॥ १३८ ॥ सागसेपि न कुप्यन्ति क्षमया चोपकुवैते । बोधिं स्वस्ययैव नेष्यन्ति ते विश्वधरणोद्द्यताः ॥ १२९ ॥ विहारतूर्यनिधोषेरुन्निद्रः प्रेरितः खलैः । पुरा भवान्व्यधात्कोधादविहारोद्दलनं यदा ॥ १४० ॥ महाशाक्यः स न्रुपतिर्न शक्यो बाधितुं त्वया । तस्मिन्द्रुष्टे तु कल्याणि भविता ते तमःक्षयः ॥ १४१ ॥ अस्मद्गिररा प्रेरणीयो विहारकरणाय सः । दत्त्वाम्ब हेमसंभारं त्वया मलिनितः खलैः ॥ १४२ ॥ तस्मिन्क्रुते न जायेत विहारच्छेदवैशसम् । ् तस्य तत्पेरकाणां च प्रायश्चित्तं क्रुतं भवेत् ॥ १४३ ॥ कुद्धैबॊद्धऐरयुध्याता त्वद्वधाय प्रधाविता । अनुशिष्टा समाहूय बोधिसतैस्तदेत्यहम् ॥ १४४ ॥
कुलकम्॥
तस्मात्सच्वातिरेकस्ते मिषादेवं परीख्शितः । क्षीणपापाद्य संव्रुत्ता स्वस्ति ते साधयाम्यहम् ॥ १४५ ॥ कृतप्रतिश्रवे रा विहारक्रुतये पुनः । प्रहर्षोत्फुल्लनयना क्रुत्यादेवी तिरोदधे ॥ १४६ ॥ अथ क्रुत्याश्रमं क्रुत्वा विहारं वसुधाधिपः । तत्रैव क्षीणतमसं क्रुत्यादेवीमबन्धयत् ॥ १४७ ॥ विधाय सोश्मप्रासादं नन्दिक्षेत्रे क्षमापतिः। भूतेशाय क्षमां कोशैः पूजां रत्नमयीं ददौ ॥ १४८ ॥
१ तमसः इत्युचितः पाठः । २ नेच्छन्ति इत्युचितः पाठः ।