राजतरङ्गिणी
विस्मारितो नित्यकृत्यं कार्यव्यग्रतयैकदा। विदूरसोदरजलाप्लावनालाभदुर्मनाः ॥ १२५ ॥ अपदयन्निर्जलातस्थादकस्मादुपस्थितं पयः ।
युगलकम् ॥
प्रादुर्भुते ततस्तस्मिंस्तिर्थे कृतनिमज्जनः । स नन्दिरुद्रस्पर्धायं मानी पर्याप्तिमासदत् ॥ १२७ ॥ तेन जातु परीक्षार्थे निक्शिप्तः सोदरान्तरे। सपिधानाननः स्वर्णभ्रुङ्गारः सुषिरोदरः ॥ १२८ ॥ सार्धेन श्रीनगर्युद्भवाम्भसः । उन्मग्न स महीभर्तुस्तस्य चिच्छेद संशयम् ॥ १२९ ॥ नूनं नन्दीश एवासौ भोक्तुं भोगानवातरत् । द्रुष्टादृष्टक्रियासिद्धिर्न भवेत्ताद्रुगन्यथा ॥ १३० ॥ राशस्तस्य कदाचितु व्रजतो विजयेश्वरम् । ययाचे काचिद्बला भोजनं मार्गमध्यगा ॥ १३९१ ॥ यथेष्टमशनं दातुं ततोनेन प्रतिश्रुते । व्यव्रुणोद्धिकृता भूत्वा सा न्रुमांसाश्रयां स्परुहाम् ॥ १३२ ॥ स सत्वहिंसाविरतस्तस्यै मांसं स्वविग्रहात् । अनुग्यां प्रददौ भोक्तुं यदा सैवं तदाव्रवीत् ॥ १३२ ॥ बोधिसत्वोसि भूपाल कोपि सत्वर्जितवतः 1 कारुण्यं प्राणिषु द्रुढं यस्येद्रुक्ते महात्मनः ॥ १२४ ॥ वौद्धभाषामजानानो मादेभ्वरतया न्रुपः। को बोधिसत्वो यं भद्रे मां वेत्सीति जगाद ताम् ॥ १३५ ॥ पुनर्बभाषे सा भूपं श्रोतव्यं मत्प्रयोजनम् । ्ह्युत्थापिता बौद्धैः कोधाद्धिप्रकृतैस्त्वया ॥ १३६ ॥