पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
प्रथमस्तरङ्गः


विजयेश्वरनन्दीशक्षेत्रज्येष्ठेशपूजने ।
तस्य सत्यगिरो राज्ञः प्रतिज्ञा सर्वदाभवत्‌ ॥ ११३ ॥
ग्रामे ग्रामे स्थितैरश्वैर्धावनं प्रतिषिद्धवान्।
स्वेनावहत्तं सततं नागः कोपि सुह्रत्तया॥ ११४ ॥
स रुद्धवसुधान्म्ले्च्छान्निर्वास्याखर्वविक्रमः।
जिगाय जैत्रयात्राभिर्महीमर्णवमेखलाम्‌ ॥ ११५ ॥
ते यत्रोज्झटितास्तेन म्लेच्छाश्छदितमण्डलाः ।
स्थानमुज्झटडिम्बं तज्जनैरद्यापि गद्यते ॥ ९१६ ॥ स्
जित्वोर्वी कन्यकुब्जादौ तत्रत्यं स न्यवेशयत्‌ ।
चातुर्वर्ण्यं निजे देशे धर्म्यांश्च व्यवहारिणः ॥ ११७ ॥
यथावद्ध्रुद्धिमप्राप्ते व्यवहारधनादिभिः।
सामान्यदेशवद्राज्यं तावदस्मिन्हि मण्डले॥ ११८ ॥
धर्माध्यक्षो धनाध्यक्षः कोशाध्यक्षश्चमूपतिः ।
दूतः पुरोधा दैवज्ञः सप्त प्रक्रुतयोभवन्‌ ॥ ११९ ॥
                         युगलकम्‌ ॥
कर्मस्थानानि धर्म्याणि तेनाष्टादश कुर्वता ।
ततः प्रभ्रुति भूपेन कृता यौधिष्ठिरी स्थितिः ॥ १२० ॥
स विक्रमप्रभावाभ्यां समुपार्जितया श्रि्या ।
विदधे वारबालादीनग्रहारानुदग्रध्रीः॥ १२१ ॥ ्
द्वारादिषु प्रदेशेषु प्रभावोग्राण्युदग्रया ।
ईशानदेव्या तत्पत्न्या मातृचक्राणि चक्रिरे ॥ १२२ ॥
श्रुतनन्दिपुराणः स व्यासान्तेवासिनो न्रुपः ।
सेवनं सोदरादीनां नन्दीशस्पर्धया व्यघात्‌ ॥ २२२ ॥
प्रतिष्ठां ज्ये्ष्ठरुद्रस्य श्रीनगर्यां वितन्वता ।
तेन नन्दीशसंस्पर्धा न मेने सोदरं विना ॥ १६२९४ ॥